________________
(२३०) पद्ममिति । पाणिपादे इति । पाणी पादेवा तल्लक्षणात् प्रागुक्तानि तु करतल एवेति नियमः | छत्रस्य उभयत्र योग्यत्वेऽपि यस्याकरतले छत्र सा नीच कुलजापि राजानं वशीकरोतीति विवेक विलासे तु यत्पादाङ्गुलयः क्षोणी कनिष्ठाद्या स्पृशन्ति न ।
एकद्वित्रिचतुः संख्यान् क्रमान्मारयते पतीन् ॥ १॥ यत्पादाङ्गुलिरेकापि भवेद्धीना कथं च न ।
येन केनापि सा सार्द्ध प्रायः कलहकारिणी ॥ २॥ अल्पवृत्तेन वक्रेण शुष्केण लघुनापि च । चिपटेनातिरिक्तेन पादाङ्गुष्टेन दुषिता ॥ ३ ॥ इत्यादि ज्ञेयम् ॥१६॥
अगुल्यः संहिता यस्या नखा पबदलापमाः ।
मृदुहस्त तलाकन्या सानित्यंसुखमेधते ॥ १७ ॥ अङ्गल्येति । अगुल्यो नखाश्च कमलदलवत् रक्ता यस्याः हस्ततलं कोमलं पद्मपत्रवत् सानित्यं सुखभोगान् राज्यनियमः ।। १७ ॥ सामान्यतो लक्षणान्युक्त्वा वामावामयोर्विशेषमाह
आयुरेखा भर्तृरेखाश्वश्रु स्याद्धनरेखया । . श्वसुरो गोत्ररेखायां स्त्रीणां दक्षिणहस्ततः ॥ १८ ॥ आयुरेखेति ! दक्षिणपाणी या जीवितारेखा सापतिरेखा धनरेखाश्वश्रररेखा गोत्ररेखा श्वशुररेखा तत्तजन्य सुखदुःखलाभालाभादि फलस्य स्त्रीणां लक्षणात् ॥ १८ ॥
धर्मरेखा धर्मकारी दामरेखा सुगोधनन् ।
रत्नाकराद्वामहस्ते दाससौख्य श्चतुष्पदे ॥ १९ ॥ धर्मरेखेति । वामहस्ते धर्मरेखास्त्रियाः स्वाङ्गोत्थ धर्मलक्षणं दक्षिणे पत्यादेशाद्विहित धर्मलक्षणं, पुष्पस्रक् रज्जुर्वामहस्ते तदा तस्या गृहे गोधनं बहुलं, रत्नाकरान्मणिवन्धाबद्दासदासी चतुष्पदबाहुल्यं, पितुः
"Aho Shrutgyanam"