________________
( २३१ )
प्राप्यं धनं वामे धनरेखया पत्युः प्राप्यं दक्षिणे धनरेखया, इत्यादिस्वबुद्धया उन्नेयम् ॥ १९ ॥
भाग्यरेखा वामहस्ते ज्ञेया तत्रैव सन्ततिः ।
सोदरो वासपत्नी च दक्षिणे करमे स्मृताः ॥ २० ॥
भाग्यरेखेति । स्वभाग्यरेखावामे, पत्युर्भाग्यं दक्षिणे तथा स्व-उदर जाता सन्ततिर्वामे करमे रेखाभिर्वाच्या सपत्नी जाता सन्ततिः दक्षिणे करमे सपनीयोग सम्भवे सति । तदभावे बन्ध्यायोगे पालिता सन्ततिः विधवायोगे तावन्नरैः समराङ्गः सत्या विधवायोग प्रीतिभावः ॥ २० ॥
यत्रोदरम्थपीडाया रेखामध्याद्यपर्वगा ।
सवेदत्यन्त विपमा गर्भपातं तदा वदेत् ॥ २१ ॥ यत्रेति । यत्र पुंसो उदरपीडारेखा तत्र वामहस्तेऽत्यन्तं विषमावका वेध - वती रेखा गर्भपातं वदति दक्षिणेत दरपीडैव ॥ २१॥ सन्तानरेखा प्रान्ते या दीर्खाकोशस्य सम्मुखी । व्यापाररेखा तस्याथ नीचैर्वेका विषाशनी ॥ २२ ॥
सन्तान रेखेति । सन्तानरेखाणां मणिबन्धप्रत्यासन्ने प्रान्ते दीर्घा कोशोन्मुखीरेखा व्यापाररेखा वामे स्याद् व्यापारे लाभ चातुर्यं वा दत्ते दक्षिण विद्या रेखया पठनं वाच्यम् । तस्या व्यापाररेखा यानीचैर्यारखा सा वक्राचेद् सा स्त्रीविषं भक्षयतीत्यर्थः ॥ २२ ॥
पीठे या ऊर्द्धरेवास्ता जाररेखा उदाहृता ।
वयस्या दक्षिणोव कन्दे ज्येष्टाच देवराः ॥ २३ ॥
पीठ इति । अङ्गुष्टमूले नृपासने ऊर्द्धरेखा जाररेखा अत्यन्तं मनोहराः सुशीलाया स्तावतां पुंसां मनोऽनुरागो वा ज्ञेयः । सपत्नी योगस्य असम्भवे दक्षिणे करमे वयस्याः सख्यः, दक्षिणे कन्देऽङ्गुष्ठमूळे ज्नेष्टदेवर संख्या स्वविवाहे जीवन्तस्तज्जन्यं सुखादिवाच्यम् ॥ २३ ॥
दिगविभागं बालबोधायाह
____
"Aho Shrutgyanam"