________________
( २२९) रेखाशुभाऽप्यशुमाकस्य सिंहराशिनाम्नः पुरुषस्य न सर्वस्य, कस्मात् स्वराशि स्वामिना सूर्येण गोर्याऽङ्गुल्याः पत्युः शुक्रस्य वैरात्तेन दुःखं तदपि मित्रकृतं न पुनर्वैरिकृतं. मित्रवियोगमरणप्रीतिभङ्गः धनक्लेशादिना, एवं यत्र नोक्तं तत्रापि ज्ञेयम् । नरस्य वामागुलित्रिभागेषु ऊद्ररेखया सुखमिति प्रोक्त स्थानं रिपुरेखाया वामहस्वात् तेनसुखं कस्य मकरकुम्भराशिनान्न: कस्मात् स्वामिना शनिना अनामिकायाः पत्युः शुक्रस्य मैत्री सम्बन्धात् ततः सुखं रिपुकृतमेवरिपुपाक्षिकमिलनात् वैरोपशमाद्वैरिविनाशाद्वा ज्ञेयम् । एयं स्त्रियापि विमृश्यं केतुस्थाने स्त्रियाः पुंसो वा दुःखमेव, विशेषेण सामान्यबाधात्, एवं द्रव्यादियोगादपि शुभाशुभता ज्ञेया प्रागेवविस्तरात भणितत्वात् ॥ ११ ॥
अथ स्त्रीणां लक्षणे फलविशेषोदिग्मात्रमाह-- अकुशकुण्डलं चक्रं यस्याः पाणितले भवेत ।
पुत्रं प्रसूयते नारी नरेद्रं लभते पतिम् ॥ १२ ॥ अकुश इति । कुण्डलं पुष्पाकृतिचक्रं बर्तुलाकृति, इत्यनयो|दः ॥ १२ ॥
यस्याः पाणितले रेखा प्रसादं छत्रं तोरणम् ।
अपि दासकुले जाता राजपत्नी भविष्यति ॥ १३ ॥ यस्या इति । प्रासादतोरणयोर्वन्ध्यायोगाद्रज्यविभवभोग एवं सूत्रे प्रोक्तं न पुत्रप्राप्तिः ॥ १३ ॥
मन्दिरं कुण्डलं चैव ध्वजश्चक्रसरोवरम् ।
यस्याः करतले छत्रं सा नारी राजमुर्भवेत् ॥ १४ ॥ मन्दिरमिति । राजसूरिति तस्या पुत्रो राजास्यात् ॥ १४॥
यस्याः करतले रेखा मयूर छत्रमीक्ष्यते ।
राजपत्नित्वमाप्नोति पुत्रश्च सह वर्धते ॥ १५ ॥ यस्या इति । राज्यविभवः पुत्रप्रासिश्चेत्युभयंफलम् ॥ १५ ॥
पनं मालाङ्कुशं छत्रं नन्दावर्त प्रदक्षिणः । पाणिपादे भवेद्यस्याः राज्ञोभोग्यात्र साकनी ॥ १६ ॥
"Aho Shrutgyanam"