________________
( २२८ )
तर्जन्यादिनखैर्भग्नै जतिमात्रस्य तु क्रमात् । अर्धत्र्यंश चतुर्थांशाष्ठांशा स्यु सहजायुषः ॥ ९॥
तर्जन्यादिति । जातमात्रस्य तु शब्दात् वयोरन्तरेऽपि तर्जन्यादिनखभङ्गे क्रमात् सहजायुषः अष्टोत्तरशतवर्षा प्रमाणस्य यद्वास्वायुर्लेखास्वरूप लब्धस्यायुषः अर्द्धम् । त्र्यंशस्तृतयोभागः, चतुर्थोभागः, अष्टांशः लोपादष्टमोंशः न्यूनः स्यात् तर्जनी नखे भमेऽर्घमायुस्टतीत्येवं सर्वत्रयोज्यम् ॥ ९ ॥
प्रत्यय
अङ्गुष्ठस्य नखे भग्नेधर्मतर्थिरतो भवेत् ।
कुर्मोनतेऽङ्गुष्ठनखे नरः स्याद्भाग्यवर्जितः ॥ १० ॥ अङ्गुष्ठस्येति । अङ्गुष्ठनखभने प्राग धर्माजनोऽपि धर्मेदानादिके तीर्थे देवगुर्वादिके रतस्तत्सेवा तत्परस्यात् । अन्यत्र कुर्मोत्पन्न त्वं नखानां शुभमपि, अड्गुष्ठनखे तथा रूपमशुभं तत्र कुर्मोत्पन्नत्त्वे । नरोनिर्भाग्यः । अङ्गुष्ठनखे यथा योग्यत्वात् न्यूने गुरोर्विरोधीखलः पैशुन्येन भाग्यं मुङ्क्ते । एकत्राप्यङ्गुष्ठनखे फलमिदं द्वयोस्तानुप्ये किं वक्तव्यम् ॥ १० ॥
अथ लक्षणविमर्शसर्वस्वमाह
स्थानद्रव्यादियोगेन शुभमप्यशुभं क्वचित् ।
दिकं, काल: कृष्ण
अशुभं वा शुभं ज्ञेयं सुधीयाभ्यासशीलनात् ॥ ११ ॥ स्थानद्रव्यादीति । स्थानमङ्गुष्ठाङ्गुलिकरतलार्दग्भागो मूलमध्यापर्वाद्रव्यं बालवृद्धयुवपुंस्त्रीरूपमादि शद्वाज्जाति ब्राह्मणक्षत्रियादि. शुक्लपक्षादिः क्षेत्र स्वदेशपर देश रूपं तेषां योगः सम्बन्धस्तेन शुभलक्षणमप्यशुभं कचिज्जायतेऽशुभमविशुभं तत् सुधिया पण्डितेन सामुद्रिकशास्त्रेऽभ्यासः पुनः पुनर्लक्षणपरीक्षणं तस्य शीलनात् करणात् ज्ञेयम् । यथा हस्त बिम्बकृता दक्षिणहस्ते अनामिकामध्यपर्वणि दुःखमिति प्रोक्तं स्थानं, मित्ररेखायाः दक्षिणाङ्गुलिका त्र्यंशेतामित्राकाप्तिकारिका इति वचनात्ततः स्थानात, आन्तर्यं बलीय इति न्यायात् ऊर्द्ध
"Aho Shrutgyanam"