________________
( २२३ )
अथ मित्रामित्र संख्याया लक्षण माह
करशाखासु मध्यस्थे त्र्यंशेवा उर्द्धरेखिका |
तावैरी दुःखकृतं प्राप्तिसूचका वामहस्तगा ॥ २३२ ॥ करशाखाविति । अङ्गुलीषु मध्यत्रिभागे या ऊर्द्ध रेखास्तावन्तो वैरिण इति तत् कृतं दुःखं मूलभागेऽर्थाद्रिपुरपि मित्रं स्यात्तत्सुखं वामहस्ते पुरुषस्य लक्षणीयं स्त्रियास्तु पितृगृहस्थानीयाः सख्यः ॥ २३२ ॥
दक्षिणाङ्गुलिका त्र्यंशे तामित्रावातिकारिका ।
रेखावेधे फलंन्युनं स्कूटत्वेऽतिशयात्फलम् ॥ २३३ ॥
दक्षिणाङ्गुलेिकेति । दक्षिणहस्तेऽङ्गुलिमूलत्रिभागे या ऊर्द्धररेवास्ताः संख्यान्तावन्ति मित्राणि वाच्यानि स्त्रिया पतिगृह सम्बन्धाद्वैरिण्य इति, मध्यत्रिभागेऽर्थान्मत्रकृतं दुःखं शरीरेऽपि तत्तत्स्थाने पीडा धातवास्यात्, इति यद्यपि ऊर्द्धरेखा सर्वत्र शुभा एव तथापि बामावामाङ्गभेदादिदं फलंवाच्यम् घटी दिनवर्ष चक्रादिविमर्शता शुभाएवा अत्रारित्वं मित्रत्वं स्वराशिनाथ स्थानाधीशयोर्वै सुहद्भावे च लक्षणीयं उपलक्षणात्तयोः साम्येफलसमतापि वाच्या । तत्रापि रेखावेधेसति फलं रेखाया न्यून रेखाप्रकटत्वे फले बहुतरं ज्ञेयम् । स्वराशिनाथ स्थाना धीशयोवरेऽपिहस्त बिम्बे मित्र रेखा कथनं तत्र तत्तद्वर्षागमे मित्रमपि वैरिकार्येकरं तयोः सुहृद्भावे वैरी जनोपितत्ते द्वर्षागमे सुहृद्भवति, तत्रापि दक्षिण तर्जनी मध्यपर्वणि आयतारेखालेखानाभ्यासं दत्ते, एवमिष्ट संयोगरेखायां तथा मन्त्रसिद्धयादि रेखायामपि फलालाभ प्रबोध्यः ॥ २३३ ॥
अथ करपृष्टे लेखाफलमाह
अङ्गुष्ठपृष्ठे योरेखा यवाधः पर्वणिस्मृता ।
तावद्विशति वर्षाणि मृत्युजन्मद्वयं निशि ॥ २३४॥
अङ्गुष्ठ पृष्ठ इति । नखान्निचैर्भगिऽङ्गुष्ठपृष्ठे यावत्यरेखा स्तावद्विशतिका प्रमाणमायुः । ललाटेऽङ्गुष्ठ पृष्ठे वारेखाविमृश्यायुर्लेखायामपि फलनियमात् तत्र रेखाप्रकटत्वे मृत्युर्जन्म च द्वयमपि निशिवेद्यं, ननु,
"Aho Shrutgyanam"