________________
( २२२ )
तिलो हस्ततले राज्ञां निन्द्यः सवणिजां शुभः । ध्वजो वणिजां श्रेष्टो देशभ्रमणकारणात् ॥ २२९ ॥ तिल इति । राज्ञां क्षत्रियाणां हस्ततले तिलः अप्रशस्तः तिलस्याल्पवीजत्वात् राज्ञां सर्वोत्तमसाहसबीजत्वात्, रक्ततिलस्तेषामपि श्रेष्ठ एवेति केचित्, क्षत्रियाणां रक्तवर्णत्वात्, वणिजां व्यापारकारिणां शुभस्नेहस्थानत्वात्, ध्वजः क्षत्रियाणां श्रेष्टः ध्वजवज्राङ्कुशछत्रशङ्खपद्मादयस्तले पाणिपादे प्रदृश्यन्ते, यस्यासौ श्रीपतिः पुमान् १ ॥
शक्तितोमरदण्डासिधनुश्चक्रगदोपमा, यस्य हस्ते भवेयुस्तम् राजानं च विनिर्दिशेदिति । प्राचां वचनेन राजचिह्नत्वात्, वणिजां न ध्वजः श्रेयान् देशभ्रमणलक्षणत्वात्, एवं शुभलक्षणमपि जातिभेदादशुभं तथा देशभेदास्कालभेदावपि शुभमशुभं वा यथायोगं बोधव्यम् तत एव ध्वजावृद्धत्वे सुखीति पूर्वमुक्तम् ।। २२९ ॥
यात्रा विद्ययोरखेप्राह---
यात्रारेखाङ्गुष्ठ मूलान्निर्गता पितृसङ्गता ।
विद्यारेखातु करभान्निर्गता कोशसम्मुखी ॥ २३० ॥
यात्रेति । तीर्थयात्रामङ्गुष्ठमूलान्निर्गता पितृलेखाया मिलिता लेखा लक्षयति । विद्याशास्त्रपठनपाठनरूपा तस्यालेखा करभादेव निर्गता कोशसम्मुखी प्रागुक्तहस्तरूपजन्मपत्रे बुद्धिस्थानातू, गणितसङ्गितनाय्यादिविज्ञानविद्या चातुर्थं वा वामहस्ते विद्यालेखया लक्षणीयम् । लेखक कर्मविद्या पुंसोऽनामिकायां मध्यपर्वणि आयतरेखया लक्षणीया ॥ २३० ॥
बाणादिप्रहार - रेखामाह
-
विद्यामण्यो रन्तराले या रेखावक्ररूपिणी ।
वाणप्रहारं कुरुते समोदर गलव्यथाम् || २३१ ॥ विद्यारेखामणिर्बन्धस्तयोर्मध्ये वकारेखाबाणप्रहारं दत्ते आयुधं गृहस्य नैरित्तिस्थानात् तत्रैव समारेखा उदरे प्रहारङ्गुले पृष्ठभागेवा प्रहारलक्षणम् ।। २३१ ॥
"Aho Shrutgyanam"