________________
( २२१ )
मूले राज्यपररेखयास्तथा धर्मरेखा प्रत्यासत्त्या, आचार्यादि पदरेखायाश्च पृथग्भावे नैत्रयुक्तत्वात् ॥ २२५ ॥
अथ वाहन रेखामाह
समुद्रान्निर्गतां गोत्ररेखान्तर्नृपमूलगा |
वाश्वरेखा निर्दिष्टा समापर्यकिकांदिशेत् ॥ २२६ ॥
समुद्रादिति । पूर्वसमुद्रान्निर्गता गोत्ररेखायामध्ये नृपस्याङ्गुष्ठस्य मूलगता हस्तथिम् एव सुखोन्नेया वक्रा, अश्ववाहनं दत्ते सा समास्यात्तदा पर्यङ्ककां वाहनिकां दत्ते दरिद्रारेखादि तद्बाधक लक्षणा भात्रेसति ॥ २२६ ॥ केषाञ्चिन्मते स्त्रीरेखा अङ्गुष्ठमूल इति तन्मत परमार्थमाहअङ्गुष्ठमूलेया ऊर्ध्वरेखा स्त्रीसंगमप्रदा ।
तिरवीना पदरेखा मतमेतत् क्विचिन्मतम् ॥ २२७ ॥
अङ्गुष्ठेति ! अङ्गुष्ठमूले या ऊर्द्धरेखा स्वावत् स्त्रीप्रसङ्गददति । स्वीयपरकीयो दुढामदूढसर्व स्त्रीसाधारण सूत्रमिदम् । स्त्री अङ्गुष्ठमूल एव पदरेखा सिंहासनादेस्तत्र लक्षणात्, एत्मतं क्वचिन्मतं इष्टं हस्तबिम्बतु तीरश्रीना पदरेखा पृथगेव, यदुक्तं वेदं स्वमतेऽपि अङ्गुष्ठपितृरेखान्तरे तिर्यग् रेखायाः प्रागेव भणनात् अङ्गुष्ठमूले मूल पर्वणि तिरचीना पदरेखा इत्येव
}
मतान्तरम् ॥ २२७ ॥
भाण्डागारभोगयोः स्थानमाह
――――
गोत्ररेखा धनरेखान्तराले कोश इरितः आयुर्धनान्तरे भोगोयशोऽङ्गष्ठपर्वगम् ॥ २२८ ॥
गोत्रेति । गोत्रधनरेखयोर्मध्ये भाण्डागारस्थलं, आयुर्द्रव्यलेखयोर्मध्यभागे धनभोक्तृत्वरेखा तदभावे कृपण भावः अङ्गुष्ठमूलपर्वणि, आयता रेखा यशो रेखा, सर्वत्र कार्ये तस्य यशः प्राप्तेः कनिष्ठामूले भाग्यरेखैव यशोरेखेति केचित् ॥ २२८ ॥
रेखा प्रसङ्गातिललक्षणमाह
"Aho Shrutgyanam"