________________
( २२० )
मृत्युरेखाद्यस्त्रिवेण्या अन्तरे ग्रथिलं नरम् ।
करोति निर्गताम्भोधेः सम्मुखी करभस्य सा ।। २२४ ॥ मृत्युरेखेति । त्रिवेण्यारेखात्रययोगस्य मध्ये यस्तु सूत्रे द्रव्यवितृरेखयोरेव -योगस्तदभाविकाले आयुर्हानिसम्भवे तद्रेखाया, असम्बन्धात्, गंगायापि प्रवाह रोधात् यदुक्तं - भविष्योत्तर पुराणे -
"
hatदशसहस्रान्ते विष्णुस्त्यक्षति मेदिनीम् ।
तदर्द्ध जाह्नवी देवी तदद्ध सर्वदेवता ॥ १ ॥
जैननयेऽपि जम्बूद्वीप प्रज्ञप्ति सूत्रे गङ्गाप्रहवाहस्य रथचक्रवाल प्रमाणविस्तारोक्तिः, षष्ठारके तत एव हंसामयं गतीराए । इत्युत्तराध्ययन सूत्रे मृतगङ्गेति पाठः ॥ २२३ ॥
अथ मृत्युरेखा प्रसंगादेव सूतिकास्थानरेखामप्याहकरभाच्चकनिष्ठाधः खीरेखाम्भोधिसम्मुरखी ।
मित्ररेखापि सैवोक्ता स्फुटिता किश्चिदानने ॥ २२४ ॥ करभादिति । करभान्निर्गता पूर्वसमुद्राभिमुखी कनिष्ठाया अधोभागे 'स्त्रीरेखा प्रसूतिसमये प्रत्यासन्ना यावत्यः स्त्रियस्ता सां प्रमाणलक्षणं दक्षिणहस्ते कायतीर्थेऽन्यस्त्री रेखाऽयोगात् । सैवरेखा किञ्चिन्मुखे भेदं भजते तदामित्राणि मातृपक्षमित्राणि पितृपक्षमित्राणि पितुर्मित्राणि वा पुत्रजन्मसमय मेलनात्तेषां रेखा उक्ता । तावन्तः पुरुषा जन्मसमये प्रत्यासन्नास्युरित्यर्थः । स्वमित्राणां दक्षिणहस्ताङ्गुलीपर्व सुस्थानादेवंव्याख्या ॥ २२४ ॥
पदरेखामाह
शिवाधस्तनु रेखान्तास्तिर्यक् सापददायिनी ।
अङ्गुष्ठ पितृरेखान्तस्तिर्यग् रेखेति केचन ॥ २२५ ॥
शिवाध इति । भिक्षारेखैव कनिष्ठा मूलादारभ्य मध्यामूलं यावत् यथोत्तरं लम्बत्वे वर्द्धमाना पददायिनी, तथैव सविस्तरं प्राग् व्याख्यातत्त्वात् । पितृरेखायान्तर्विचालेतिरश्चिना पदरेखेति केचनाचार्याः पदरेखया एवपदस्यापि लक्षणात् केचनेत्यस्वरसख्यापनं राज्ञो
अङ्गुष्टमूले
प्राहु:
" Aho Shrutgyanam"