________________
(२१९) अथ गृहबन्धरेखायोगमाह-----
गत्वा मिलितयोः प्रान्ते द्रव्यपित्रोवरेखयोः ।
गृहबन्धोविनिर्देश्यो गृहभङ्गोऽन्यथा पुनः ॥ २६१ ॥ गत्वेति । पितृरेखाधनरेखयो स्त्रिवेण्यांमिलने गृहबन्धस्तेन निर्वाहयः पितृमातृ स्वात्मरुपरेखाचययोगात्, अन्यरेखाणां तास्वेव मिलनात् , उपलक्षणात् राज्यसमुदाय पञ्चकुलन्यायव्यवस्थादिबन्धा, अपि ज्ञेया: । अन्यथा सर्वः व्यवस्था विनाशो वाच्यः । अन्यदपि मातापित्रो रन्योन्यं स्नेहस्तत्सम्बन्धि द्रव्यलाभः, धर्मानुरागः पितृभक्ति रित्यादिलक्षणीयं पुनः शब्दकथनात् ॥ २२१ ॥ अथ मृत्युरेखामाह---
मृत्युरेखां विजानीयात् समुद्रात्करभोन्मुखी ।
तदधोऽपि द्वितीयाया ग्रथिलं कुरुते जनम् ॥ २२२ ॥ मृत्युरेखामिति । समुद्रात् पूर्वसमुद्रात् करभसम्मुखां जानीयात् बुधः, तस्या अधस्त्रिवेण्यान्तराले द्वितीया यारेखा स्यात् , सा ग्रन्थिलं भूताविष्टं सन्निपतिक वा कुरुते लक्षयतीत्यर्थः । सूतिकास्थानेऽधोमुखरेखया हर्षरेखा भेदे भगन्दरोरेखाभावे क्लीबत्वमवीर्यत्वं वा गुह्यस्थानात् सूक्ष्मरेखायां प्रमही रेखाछेदे सौविदल्ल इतिलक्षणीयमित्यपि शब्दाद् ग्राह्यम् ॥ २२२ ॥ एतदेव सम्मत्या द्रढयति ----
कुलरेहाए उवारं मूलं मियरासिणी जजारेहा ।
परदेशे मरणं तण्डया इसदेश मरणं च ॥ २२३ ॥ कुलेति । गोत्ररेखाया उपरि मूले प्रदेशिन्याया रेखा, तया रेखया सेइति मागधभाषया तस्य परदेशे मरणं, तया तन्व्या स्वदेशमरणं तत्रापि वार चक्राद् यो वार हस्तेक्षणे प्राप्तस्तद्धातु प्रकोपात्, वातादिस्वरूपं तु. तत्तद्रेखाभिः ॥ २२३ ॥
अत्रार्थे भोजवाक्यमप्याह
"Aho Shrutgyanam"