________________
( २१८ )
रेखायामध्यमस्थाम्यामाभ्यां प्रोक्तो विपर्ययः । तर्जनीगृहबन्धान्ता रेखास्यात्सुख मृत्युदा ॥ २१७ ॥
रेखाभ्यामिति । पूर्वोक्तं रेखाद्वयं चेत् मध्यमाङ्गुल्यां तदाविपर्ययः स्मनैश्वर्यं अधर्मश्चेति ज्ञेयः । हस्तबिम्बे तु वामहस्ते अनैश्वर्यं दरिद्रत्वमिति । दक्षिणेतूदरव्यथेति विशेषः तर्जनी तथा ग्रहबन्धो रेखात्रय योग स्त्रीवेणी तयोरन्तर्मध्ये रेखा सुखेन समाधिना मृत्युं दत्ते । प्रन्थान्तरानुरोधादिदं तेन वक्ष्यमाणेन न पुनरुक्तिः ॥ २१७ ॥
प्रकरणे धर्मरेखा बहवस्तत् स्थानभेदश्च तेन यदुक्तमाह
जेठायनामियाणं मज्झाउ निग्गया उवयरेहा | तम्मूलं जाणुपुणो तातुझ्य धर्मरेहा उ || २१८ ॥ जेठाय इति । ज्येष्ठानामिकयोर्मध्य भागान्निर्गता जीवित रेखा सम्मुखी सात्रतरेखाव्रतमत्र कुलधर्मस्तपोवा यमनियमरूपं वा तस्य लक्षणं तस्या मूले या रेखास्तास्तिस्रश्चतस्रोवा
व्रतरेखायास्तयोज्येष्ठानामिकयोर्वा
धर्मरेखा इति ।। २१८ ॥
तासुत्र रितिरिछज्जा सापूण मगुतणी भवे रेहा । अखंड पल्लव दीहा राईहि सेविया परा ॥ २१९ ॥
तासुवरिति । तासामुपरि तिरश्चीना या रेखा सामार्गणत्वस्य रेखा भवेत् सा चेत्, अप्रकट पल्लवा पल्लवरहिता दीर्घा च स्यात्तदा राज्ञीभिः सेवित महालोकैः परिकलिता प्रवरा श्रेष्टा सर्वत्र मान्याभिक्षा स्यात् ॥ २१९ ॥ इयमेव पदरेखापीत्याह -
सोहवइवायणारी कणिठिया हिश्यागया जस्स | उज्झायणामियाणवयठहिठा यतो सूरी ।। २२० ॥
सोहवईति । स भवति वाचनाचार्यः कनिष्ठाया अधो यदाभिक्षा रेखास्यात् यस्य पुंसः । अनामिकाया अधोभिक्षारेखा प्राप्तौ उपाध्यायः पुनर्प्रतरेखाया अघोयावत्प्राप्ताभिक्षारेखा कनिष्ठा मूलादारभ्य मध्याङ्गुलिमूलं यावल्लम्ब यस्य स्यात् सूरिराचार्यो गणनाथ इति ॥ २२० ॥
"Aho Shrutgyanam"