________________
(२१७) शिवाधःस्या धर्म रेखा मध्यातो जीवीतोन्मुखी ।
कथयेदुदरे पीडामाद्याद्याः स्यातुदीक्षणम् ।। २१५ ॥ शिवाधःस्थेति । शिवा भगवती सावित्रीत्यर्थः । श्री क्रमसीहतायां शम्भुपत्नी श्रियरुद्धा इत्यनेन व्हीकारः शम्भुपत्नी तन्न्यासः सावित्र्यां तेनेयमपि शम्भुपत्नी। तदधिष्ठाने तद्व्यहारात् यक्षाधिष्टित जल्पने, यक्षोऽय जल्पतीत्यादिवत् । तस्या नैचैरु_युलेखा सम्मुखी धर्मरेखा तस्या एवं जाप प्रारम्भात्, मध्याङ्गुलिनिर्गता जीवितरेखाभिमुखी किञ्चित्तिरश्चिना हस्तबिम्बन्यास गम्या उदरे वायुपीडां कुर्यात् । लक्षयतीत्यर्थः । आद्यायास्तर्जन्या अधःस्थिता रेखा दीक्षणं प्रव्रज्यां कुर्यात्, दीक्षारेखा हस्तबिम्बे करभसम्मुखा केचित्तु मणि सम्मुखी माहुर्निश्चयो बहुश्रुतगम्यः । तत्रापि चारचक्राद्धस्तवीक्षणे यो वारः प्राप्यन्त सम्बन्धिनी दीक्षत्यर्थः । आदित्या चैबीलभिर्भवति च पुंसां तथा क्रमं दीक्षा । तापस १ कापिल २ सौगत ३ भागवत ४ यति ५ चरक ६ जैना ७ मिति ज्योतिः शास्त्रात् वारेशुके प्राप्ते तिथिर्वात्मनो नक्षत्रं शन्यधिष्टानकनिष्ठाङ्गुल्यां प्राप्नोति चेत् सितपट दीक्षावारे शनौप्राप्ते तिथौ स्वनाम नक्षत्रे वा निष्ठाङ्गुलिं प्राप्ते दिक् पटे दोक्षत्यादि सुधियोन्नेयम् ॥ ११५ ॥ धर्मरेखायां सम्मतिमाह
अनामिकाद्य सर्वस्था प्रतिरेकाप्रभुत्वकृत । उ‘पुनस्तले तस्या धर्मरेखेयमुच्यते ॥ २१६ ॥ अनानिकेति । आद्यं मूले पर्वराशि नक्षत्रादे स्तत एव प्रारम्भात् प्रतिकुला-बका रेखा प्रभुत्वमैश्वर्यं धनस्तजन वाहनाज्ञा प्रवृत्या करोति भगवती मूलात् शेष स्पष्टम् । विवेकविलासे अनामिकान्त्य पर्वस्था इति तत्र नखभागादेव व्यवस्था यदि धर्मरेखा शिवा मूलान्निर्गत्यत्रिवेण्यां . प्रविशति तदाऽत्यन्तं धर्मवान् सुगतिश्चपरं अनामिकान्त्य रेखायाः कनिष्ठा स्याद्यदाधिका इति तदुक्तिरेव दुर्योधा ॥ २१६ ॥
"Aho Shrutgyanam"