________________
( २२४ )
मृत्यु निश्चयार्थ मिदं लक्षणं क्षममवहस्तस्तमस्विनीति, कथनात् जन्मलक्षणं तु न घटते, दक्षिणाङ्गुष्ठ यवेन दिनज़न्म लक्षणे न कस्यचिद्वाधादिति चेन्न; सावकाशान्निरवकाशं बलीय इति न्यायात् यस्य उच्चारण नाम्नि विषमाक्षरत्वं तस्य सूर्य प्राधान्याद्दिनं हस्ततलं प्रोक्तमिति । तलस्थयवन दिनजन्म वाच्यम् । यस्यनाम्नि समाक्षरत्वं तस्य चन्द्रमुख्यतया यवबाधेन निश्येय जन्मलक्षणात् ॥ २३४ ॥
तर्जन्याः : पृष्ठ भागे वा पर्वणायत देखिका |
तावद्वारान् रोगबन्धक्लेशानिशि तदुद्भवः ॥ २३५ ॥
तर्जन्या इति । आयता रेखा यावत्यस्तावद्वारान् रोगादि स्यात् । निशिरात्रौ तेषां रोगादीनामुदयः ॥ २३५ ॥
लक्ष्म्याः पृष्ठांशरेखाभिर्धनं चौर्यादिसम्भवम् ।
परदार लम्पटत्वं निशिभुक्ति भूमौ प्रियौ ।। २३६ ॥
लक्ष्म्या इति । रात्रौ भोजनं भ्रमणं च वल्लभं आरक्षक चौरादिवद्राकि भ्रमेणा जीवनात् ॥ २३६ ॥
शिवायाः पृष्ठरेखाभिः विरतिर्निशि भोजनात् ।
परोपकारी धर्मादि स्वप्नं रात्रौ शिवं सदा ॥ २३७ ॥
शिवाया इति । अनामिकाया पृष्ठारेखाभिर्निरी भोजनान्निवृत्तिर्धर्मरेखा प्रत्यासत्तेः, परोपकारी तथा धर्मादानं दया दमो गुरुदेव सेवादिः तस्य स्वप्नः तथा रात्रौ सदा शिवसम्पदः ॥ २३७॥
तारायाः पृष्ठभागेऽपि रेखाभिः क्रूरकर्मकृत् ।
अन्यायोजन पैशून्यं धर्मद्वेषश्च सम्भवेत् ॥ २३८ ॥
ताराया इति । शनिराहोः स्थानात् तस्यां पृष्ठभागे रेखाबाहुल्ये पुरुषः क्रूरः व्यसनी--खलः पापीस्यादिति ॥ २३८ ॥
उपसंहारमाह
रेखा विमर्शनफलं गदितं गुरुणां सारस्य मेघविजयं वचनं गृहित्वा । विश्वप्रमोभगवतातिशयादमुष्मिन् वाक्सिद्धिरस्तु सुधियांवर वस्तु
सिद्धयै ॥ २३८ ॥
"Aho Shrutgyanam"