________________
(२१०) शालेति । देवकुलं प्रासादः एतस्य वन्ध्यायोलक्षणेऽपि धर्मित्वादेव मसारत्वमिति ॥ १८५ ॥
स्वस्तिके जन सौभाग्यं वाणिज्यं स्यात्तुलाकृती
श्रीवत्से वाञ्छिता लक्ष्मी गवाद्यं दामकेन तु ॥१८७॥ स्वस्तिक इति । तुलाकृतिदक्षिणी वामे स्वस्तिके जनसौभाग्य वाणिज्य चेति द्वये सति फलद्वयं श्रीवत्से दाम्ना युक्ते वान्छिता, लक्ष्मीर्गवाद्यं चादि शद्वान्महिषाश्वादिभूयस्त्वं, गोम्रहणं प्राधान्यात्, प्राधान्यमपि लोक व्यवहारात्. सिद्धान्नेऽपि वैमानिकान्तां वृषभकटकं भवनपतीनां महिषकटक मित्युक्त्या तदुक्तमेव व्रताधिकारे गवालीयं दीक्षाधिकारे वसह होइ व जाय धामे, इन्द्राधिकारे ईसाणी देविदेव सहवाहणी, स्वप्नाधिकारे महारहे वच्छा जुत्ता तथा मुक्ता गोराज गजदेवान्, पुनौरपि कर्णे प्रविश्य वदेत्, शकुनाधिकारे पूर्णकुम्भः सितोवृषः । तथा सिद्ध मन्न च गोमयं तथा सपत्साश सरज्जुवृषभद्वयं श्रेष्टं गोक्षतं मरणं दद्यात्, तथा गोध्वनिर्निशि उत्पात कृत् तथा धेनोर्मागै दत्वा गन्तव्यं, तथा सुह असहयसुदविहगगइ, तथा ब्रह्मस्त्रीझुण गोवधात्पातकं महत् इत्यादिकियल्लेख्यम् ॥१८६॥
अथ लक्षणद्वदयोगे फलविशेषः शैवसामुद्रिके, तस्य आदि श्लोक पूर्व तद्ज्ञानाय सूत्रमाह
तुलाग्रमथवा वजं करमध्ये तु दृश्यते ।
वाणिज्यं सिद्धयते तस्य पुरुषस्य न संशयः॥१८७॥ तुलाग्रमिति : तुलाग्रवजयोर्योग वाणिज्यं यत् प्रारभते सिद्धयते कर्तृकर्मणि-आत्मने पदं, शैवसामुद्रिकं, अष्टादशाध्यायात्मकं तत्र द्वादशाध्यायाः पुरुषलक्षणस्य घडध्याया, स्त्रीलक्षणस्येति ।। १८७ ॥
यस्य मीनसमारेखा कर्मसिद्धिः प्रजायते ।
धनाढयः सतु विज्ञेयो बहुपुत्र प्रियायुतः ॥ १८८ ॥ यस्तेति । मीनोमत्स्य स्तदाकारात् कार्यसिद्धिः, धनपूर्णत्वं बहुपुत्रप्रिया युत इति परिवारसहित इति ॥१८८॥
"Aho Shrutgyanam"