________________
( २११ )
वा यदिवा शेषः कोष्ठागारं च दृश्यते । पुरुषस्य करे यस्य ईश्वरः स च कथ्यते ॥ १८९ ॥ पद्मिति । पद्मशब्द: पुंक्लीवल्लिङ्ग: । स्पष्टम् ॥ १८९ ॥ लक्षणद्वय योगेऽपि त्रिकयोगमाह—
चक्राकारो ध्वजाकारः खड्गाकारचदृश्यते । सर्वविद्याप्रधानोऽयं वृद्धिमान्नृपपूजितः ।। १९० ॥ चक्राकार इति । चक्रं ध्वजः खड्गश्चेति लक्षणत्रये विद्यासर्वशास्त्रमयी । बुद्धि साम्प्रतदर्शिनी तद्वान् नृपमान्यश्च ॥ १२० ॥
अथ शूलफलमाह
शूलं पाणौ यस्य पुंसः सतु धर्मरता भवेत् । यज्ञधर्मादानरक्ता देवगुर्वोस्तु पूजकाः ॥ १९१ ॥
शूलमिति स्पष्टम् || १९१ ॥
अङ्कुशं कुण्डलं छत्रं यस्य पाणितले भवेत् ।
तस्य राज्यं विनिर्दिष्टं समुद्रवचनं यथा ॥ १९२॥ अङ्कुशमिति । उक्तार्थम् ॥१९२॥
भङ्गयन्तरेण फलोक्तिः प्रकरणकारवाचाह
वरपरमसंख सत्थियभद्दासण कुसुमच्छजलकुंभं ।
वसहगयच्छत चामरदामहय वज्जमयरं च ।। १९३ ॥
चरेति । वरपद्मशंख स्वस्तिक भद्रासनकुसुम मत्स्यजलकुम्भाः । वृषभगज - छत्रचामरदा मध्यवज्रमकराश्च ॥ १९३ ॥
तोरणविमाणकेउ जस्से एहुंति करतले पयडा तस्स । पुणरज्ज लाहो होड़ अचिरेण कालेणवा ॥ १९४ ॥ तोरणेति । तोरणविमान केतवः यस्यैते भवन्ति करतले भवन्ति प्रकटाः तस्य पुनाराज्यलाभो भविष्यति, अचिरेण कालेन ॥ १९४ ॥
पूर्वोक्तमेवविवृत्याह —
"Aho Shrutgyanam"