________________
(२०९) एकमपीति । स्पष्टम् ॥८॥
उडुपोमङ्गिनी पोतो यस्य पूर्णाः करान्तरे ।
सरूप्य स्वर्णरत्नानां पात्रं सांयात्रिकः पुमान् ॥ १८१॥ उडुपो लधुपानयात्रं मङ्गिनी पोतविशेषः सितपटरहिता पोतो महावहनमिति ॥ १८१ ॥
त्रिकोणरेखयासीरमुषलो दूषलादिना ।
वसुना हस्त जातेन पुरुषः स्यात् कृषीवलः ।।१८२॥ त्रिकोणेति । श्रृङ्गाटका कारेण सीरहलं मुशलः प्रसिद्धः उडूखलं खण्डनस्थानं तदाकारस्तुतिबिन्दुमात्रेण तदा कृषी वलः कषुकः ॥१८॥
गोमन्तस्युनरा सौधैर्दामभिः पाणिसंस्थितैः ।
कमण्डलुध्वजौकुम्भ स्वस्तिको श्रीपदौ नृणाम् ॥१८३॥ · गोमन्त इति । गवादि चतुष्पदपालकाः, सौधर्विमानै वामहस्तगतैगृह क्षेत्रवाटिकादिलभ्यस्य वामहस्ताद्विलोकनादिति । प्राक् कथनात् दामपुष्प सक्रज्जुर्वातौनराणां मकरस्थै स्त्रीणां दक्षिणकरस्थैनराः स्युः । सौधैरित्यत्र बहुत्व नरा इत्यत्रापि बहुत्वात् न चेत् यवौरत्यत्र बहुत्वदाम्नोऽपि बहुत्व प्रसङ्गः कमण्डलु ध्वजौ इत्यत्र द्वित्वं द्वयोः साहित्य ज्ञापकं, न चत् , ध्वजो हस्ततले यस्ये त्यादिन! पुनरुक्तिः । ग्रन्थान्तराद्वा न दोषः । कमण्डलु दक्षिणध्वजो वामे हस्ते ध्वजां कर्यादिति हनुमत्कल्पे, एवं कुम्भस्वस्तिकयोरपि ज्ञेयं, द्वयोरपि वामावामहस्तयोर्लक्षणात् स्वस्तिको वामे कुम्भो दक्षिणे इति स्वस्तिके वार्द्धके सुखी इति हस्तबिम्बसूत्रे प्रकरणे ' अहव वामेतो पच्छा इति भणनात्' ॥ १८३ ॥
वाप्यां सर्व जनादेयः समुद्रे स्यान्महानृपः ।
दर्पणे नि सम्पूर्णो भिषेके चाभिषेकवान् ॥ १८५ ॥ वाप्यमिति । अभिषके कमलाभिषेके राज्यवान् पट्टाभिषिक्तः ।
शस्वीकारे महावीरः पोते सांयात्रिकः पुमान् । पुस्तके शास्त्ररसिको धर्मीदेवकुले भवेत् ।। १८६ ॥
"Aho Shrutgyanam"