________________
(२०८) पाणितलाभिमुखः, सर्वदा फलदः मणिबन्धसम्मुखस्तु, अन्त्यकाले शुमफलदः । एकवचनादेकोऽपि विलोममुखतया स्थितं द्वयमपि श्रेष्टम् ।
यतः
एकोप्यभिमखः स्वस्य मत्स्यः श्रीवृद्भिकारणम् ।
सम्पूर्णी किं पुनस्तौ द्वौ पाणिमूलस्थितौ नृणाम् ॥ इति ॥ अङ्गुल्यग्रे शङ्खनिषेधादन्यत्र शुभ एव ॥ १७६ ॥
अथैषां यथोत्तरं फलवृद्धिमाह-~-- शतसहस्रं लक्षं वा कोटी दधुर्यथाक्रमम् ।।
मीनादयः करे स्पष्टा छिन्नभिन्नादयोऽल्पदाः ॥१७७॥. शतमिति । स्पष्टाः प्रकटाः छेदे भेदे वेधे वा अल्पं किञ्चिदेव फलं ददाति ॥ १७७ ॥
सिंहासने दिने शाम्या नन्दावर्तेन्दु तोरणैः ।।
पाणिरेखास्थितर्मत्स्यैः सार्वभौमा न संशयः ॥ १७८॥ सिंहासनेति । सिंहासनदिनेशौ दक्षिणहस्ते नन्द'वर्त चन्द्रतोरणानि वामे सर्वमेतन्मिलितं सार्वभौमलक्षणम् ॥ १७८ ॥
श्रीवत्सेन सुखी चक्रे नोर्वशि पविना धनी ।
भवद्देव कुलाकारे रेखाभिर्धार्मिकः पुमान् ॥ १७९ ॥ श्रीवत्सेनेति । पविना वज्रेण धनी, श्रीव सेन सुम्वीत्यत्र श्रीवत्सोऽङ्गुष्ट मध्यपर्वणि सूर्यस्थानोव नं सावित्रीमूले देवकुलं, प्रासादाङ्गुष्टमूले, एतानि धर्मलक्षणानि स्युः ॥ १७९ ॥
याप्यानरक्षाश्वेभ वृषरेखान्विता कराः।
येषां तेपरसैन्यानां हठग्रहण तत्पराः ॥ १८०॥ याप्येति । याप्ययानं नरवाहनिकादिरथादयः प्रतीतास्तलक्षे न वैरिसैन्यस्य बंदीकरणं तत्रोद्यताः ॥ १८० ॥
एकमप्यायुधं पाणौ षट्त्रिंशन्मध्यतो यदि । तदापरैरयोध्यः स्याद्वीरो भूमिपतिर्जयी ॥ १८१ ॥
"Aho Shrutgyanam"