________________
( २०५ )
सूर्ये प्रतापवान् शूरः चन्द्रेप्रकृति कोमलः ।
सिंहासने पटधारी मोरे मातुलतः सुखी ॥ १६२ ॥ सूर्य इति । अङ्गुष्ठमध्यपर्वाणि सूर्याकारे प्रतापवान् दक्षिणहस्ते इति गम्यं तत्र तस्याधिकारात्, चन्द्रेवामाङ्गुष्ठमूर्द्धपर्वणि प्रकृत्या स्वभावे कोमलः सुकुमारः वामभागस्य उत्तर दिग्रूपात् तेन ईशानेन्द्रशिरास चन्द्र इति सिंहासनं दक्षिणाङ्गुष्ठमूले पटरेखा योगात्, मयूरो वामहस्ते करभादूर्ध्वं धनरेखातो नीचैस्तत्र संगीतविद्यारेखा सन्निधानात् मोर शद्धः संस्कृतेऽपि श्राद्धविधिवृत्तौ तदर्शनात् ॥ १६२ ॥
अङ्कुशेति प्रतिष्टावान् प्रासादश्चेत् सुखी धनी ।
मत्स्सेतु पश्चिमवयः मुखी सां यात्रिकः पुमान् ।। १६३ ।। अङ्कुश इति । पूर्वोक्तस्थानादन्यत्र, अंकुशाकारे इति विशेषः प्रासादे देवगृहे दक्षिणाङ्गुष्ठमूले प्रतिष्ठावात् सुखी च, अश्वाकारे धनी । मत्स्ये तु पुनः करतलस्या सम्मुखे कूर्परसम्मुखे इति विशेषः पश्चिमेवयसीति वद्धत्वे सुखी यद्वा सांयात्रिको जलप्रहरणव्यापारी ॥ १६३ ॥
नन्दावर्ते नृपपदं सौभाग्यं कच्छपाकृतौ । पूर्णकुम्भचरः पाणौ नरः पूर्णमनोरथः १६४ ॥
नन्दावर्त इति । नन्देति नवसंख्याका, आवर्त्ता यस्मिन् स्वस्तिके
सनन्दावर्तस्तदाकारे राज्यं कच्छपः कूर्मः ॥ १६४ ॥
रथाकारे रथीलोके सोद्यमः परि वारवान् ।
खड्गादि शस्त्राकारे स्यात्क्लेशकारीसु साहसः ॥ १६५ ॥ रथाकार इति ॥ १६५ ॥
धनुषावल्लभो लोके मन्त्री चामरवान् करे । पुष्पमालाङ्कितो हस्ते यशस्वी धनवान्नरः ॥ १६६ ॥ घनुशेति ॥ १६६ ॥
मुकुटे राजमान्यः स्यात् कमले बहु भोगवान् । मुष्टौतिले पुत्रपूर्णः सर्वे क्रोधी महाधनी ॥ १६७ ॥
"Aho Shrutgyanam"