________________
( २०६ )
मुकुट इति ॥ १६७ ॥
छत्रे हठी प्रतिष्टावान् स्वस्तिके वार्धके सुखी । स्थलपद्मेति चतुरः क्षमावान् मर्दलाकृतौ ॥ १६८ ॥ छत्र इति । पूर्वसूत्रे दण्डसहितं छतं चामर युगलान्वितं चात्र पुनरेकमेव तदपि वामकार हस्तात्वात् ॥ १६८ ॥
षट्कोणे धर्मवान् धीरा तेजस्वी मणिरेखया । सरोवरेऽतिवाताङ्गः कुलमुरव्यो युगाकृतौ ॥ १६९ ॥
षट्कोण इति । षट्कोण यन्त्राकारे धर्मवान् रत्नाकरे तेजस्वी ॥ १६९॥ कुन्ते केशी सिद्धकार्यों विद्यावान् स्याच्छराकृतौ ।
विमाने दुर्ग गेहादि निर्माता कान्तिभागाज्जनः ॥ १७० ॥ कुन्त इति । सुखोन्नेयम् ॥ १७० ॥
एवं रेखा बलाद् ज्ञेयः स्वभावनिर्णयोङ्गिनाम् ।
तत्तद्रेखा कृति स्थान ज्ञेयं ग्रन्थान्तरादिह ॥ १७१ ॥ एवमिति खङ्गो दक्षिणे धेनुवमे हस्ते एवं स्वस्तिकविमान नन्दावर्ताद्यं वामे लक्षणं मुकुटप्रासादाद्यं दक्षिण इति बहुश्रुतम्भो वेद्यमित्यादि हस्त बिम्बसूत्रमेव विवृत्तं सम्यग् रीत्या रेखा ज्ञानाय चतुर्धा हस्व विम्बमपि यन्त्रस्थापना सम्भाव्यम् ॥ १७१ ॥
अथ च शुक्तिकादि विमर्श प्रसङ्गादाह
मायासु दशभिश्च राजा योगीश्वरोऽथवा ।
दशभिः शुक्तिभिः सर्वावस्थासु बहुदुःखितः ॥ १७२ ॥ मायाविति । दशस्वप्यङ्गुलीषु दशस्वप्यूर्ध्वपर्वणि चक्राणिस्युस्तदा राजमण्डलाधिपतिर्युगान्तरे चक्रवती वा स्यात् जात्यपेक्षया लक्षणफलवत् कालापेक्षयापि लक्षण फलात्, साम्प्रतीन समये योगीश्वरः प्रान्तेवा मथिलो दरिद्रः स्यात्, दशभिः शुक्तिभिर्दशावस्थास्वपिदुःखितः तत्रापि संहारवृत्या
१ 'राज्यश्री भक्तार्जिता' इत्यादिना धनुषस्तत् कथनम् ॥
"Aho Shrutgyanam"