________________
( २०४ )
संदोह कुण्डलादिक नामभृत् इत्यादिना सप्तमाधिकारे लक्षणा न्याहुः । फलं चैषां हस्तबिम्बसूत्रे ॥ १५६ ॥
तदस्तदेवाह
मस्तलोन्मुखे मत्स्ये सहस्र घनवान्नरः ।
मकरे दशसाहस्री शंखे लक्षपतिर्भवेत् ॥ १५७ ॥ मणेरिति । मणिबन्धात्तलसम्मुखे मत्स्ये सहस्ररूप्यकान् सौवर्णिकान् दीनारान् वा यथा समयं यथा देश नरस्सलभते । मकरो जलस्थलो भय चरः तस्मिन् दशसहस्रघनवान् सहस्रवत्साहस्र शब्दोऽपि । उष्मप्रभेद नाममालायां शङ्खभेद दक्षिणावर्ते लक्षपतिरिति ॥ १५७ ॥
आतपत्रं करे यस्य दण्डेन सहितं पुनः ।
ध्वजं वा चामरयुतं चक्रवर्तिं स जायते ॥ १५८ ॥ आतपत्रमिति । स्पष्टम् ॥ १५८ ॥
ध्वजो हस्ततले यस्य स वृद्धत्वे सुखी भवेत् । करभो मांसल श्रेष्टीऽङ्गुलिपर्व नमांसलम् ॥ १५९ ॥
ध्वजो यस्य हस्ते स वृद्धावस्थायां सुखी स्यात्, करभो धनायुर्लेखास्थानं स मांसपुष्टः प्रशस्तः अङ्गुलिपर्वविंशेोपकः स न मांसयुक्तः । हस्तबिम्बसूत्रत्वात् दीर्घनिर्मासपर्वणे, इत्यने न पुनरुक्तिः ॥ १५९ ॥
अङ्कुशरेखाया स्थलमप्याह
करभान्निर्गता रेखा धनरेखा यदा गता
अङ्कुशाकार भृद्यस्य स पुमान् गजवानृपः ॥ १६० ॥
करभादिति । स पुमान् गजवान् तस्य द्वारे गजो बद्ध्यते इत्यर्थः ॥ १६०॥ हस्त रेखा धरो राजा शूरः सिंहाकृतौ करे । वृषभे गोकुलपतिः कर्षको बहुरूपवान् ।। १६१ ॥
हस्तीति । हस्तसिंह वृषभश्च दक्षिणकरे पुरुषोपमानात् तत एव सौधर्मेन्द्रो वृषभ रुपैभगवदभिषक्तागमेऽपि, केचित्तुईशानेन्द्रस्य, वृषभवाहनत्वात् बीजाप्तौ वामकरयोगाद् वृषभो वाम इत्याहुः ।। १६१ ॥
"Aho Shrutgyanam"
-