________________
( २०३ )
एक
गीतगान वीणादि कलावान् बहूनां तथा, एकस्य यवस्यापि भोगादिदायित्वे फलं तुल्यं एकोऽपि भोगित्वं कुर्यात्तथा वह्नोपि भोगित्वं दद्युर्भोगेषु पुनस्तारतम्यं तथा एकस्मिन् वयसि यद्वा वयस्त्रयेऽपि भोगः । स्मिन् स्थाने सर्वत्र देशे वा भोग इत्यादि विशेषस्तु एक यत्रस्य तथा बहूनां भवत्येव यवलक्षण स्यातिशयद्योत नार्थमेवं भणिति ॥ १५५ ॥ अथ लक्षण द्वात्रिंशिका विमर्शः ।
३२
छत्रं तामरसं धनूं रथबॅरो दम्भोलि कर्मी कुशी वापी स्वस्तिक तोरणांनि चेमेर पञ्चाननः पादपैः च शङ्ख गजौ समुद्र कलशौ प्रासाद मत्स्या यवा यूपस्तूप कमण्डलू न्यवनिमृत्सच्चामरो दर्पणः ॥ १५६ ॥ उक्षी पताकी कमलाभिषेकं सुदामै कैकी धनपुण्य भाजाम् । छत्रमिति । तामरसं कमलं दम्भोलिर्वचं । सरस्तडागः पञ्चाननः सिंहः । पादपो वृक्षो यूपोऽत्र पूजास्थान स्तम्भः परमेश्वर पादुकास्थानं कमण्डलु योगिनां जलपात्रं, अवनिभृत् पर्वतः स च दक्षिणकरे तेनैव हनुमद्रूपे दक्षिणे पर्वतः । राजते निकेचित्, उक्षा वृषभः । कमलाभिषेको लक्ष्मी मूर्तिदिग्गजैरभिषिच्यमाना । सुदामपुप्यमाला । केकीमयूरः । शेषाणि स्पष्टानि घनपुण्यभाजां बहू धर्मोदय लब्ध भाग्यानां, एतानि लक्षणानि भवन्ति । अत्र पाठान्तरे
-
कमण्डलु १ कलश २ यूप ३ वापी ४ ध्वज ५ पताका ६ सौवस्तिक ७ व ८ मस्य ९ मकर १० कूर्म ११ रथवर १२ स्थाल १३ अंशुक १४ अष्टापद १५ अंकुश १६ सुप्रतिष्टक १७ मयुर १८ श्री १९ दाम २० अभिषेक २१ तोरण २२ मेदिनि २३ जलधिवर २४ भवना २५ आदर्श २६ पर्वत २७ गंज २८ वृषभ २९ सिंह ३० चामर ३१ स्तूप ३२ रुप प्रशस्तोत्तम द्वात्रिंशल्लक्षण धरा इति प्रज्ञपना वृत्तौ द्वात्रिंशलक्षणानि दृश्यन्ते । दिगम्बरास्तु हरिवंशपुराणे भास्करोऽब्धिस्तथा वीणा व्यन्जन वेणुरुत्तमः मृदङ्ग पुष्पमालाच हट्ट पट्टाम्बर शुचिः नाना भरण
"Aho Shrutgyanam"