________________
(२०१) अंगुठासयमूले जातेयमित्तातु मूलरेहा उ। तेहुति भावु या खलु तणुयाहि हुंति भयणिठ ।। १४८॥ अंगुठसय इति । अङ्गुष्ठस्यच मूले यावन्मात्राः स्थूलरेखाः ते भवन्ति भ्रातरः खलु तनुकाभिर्भवन्ति भागिन्यः । एतेन स्थूलतनुत्वयो रेखादोषत्वे प्रागुक्तेऽपि, अतिस्थूलतनुत्वयोरेव निषेधः सिद्धः ॥ १४८ ॥
अंगुठस हिठा रेहाउस जतियाहुति । तितयमित्ता पुत्ता सह्राहिय दीरियाहुति ॥१४९ ॥
पुन:अंगुठसयाहिठा इति । अङ्गुष्ठस्य चाधः रेखा यस्य यावत्यो भवन्ति तावन्मात्राः पुत्राः स्निग्धाभिर्दारिका भवन्ति ॥१४९॥
जतिया मित्ताछिन्ना भिन्नातेदारया मुयाजाणा ।
अखंडा अछिन्ना जीवंति यततिया पुत्ता ॥१५०॥ जत्तिय इति । यावन्मात्रा छिन्ना-मिन्ना तान् दारकान् मृता जानीहि । अखण्डा-अछिन्ना जीवन्ति तावन्तः पुत्राः ॥१५०॥
अथाङ्गुष्ठ यवविमर्शमाह--- विद्याख्यातिर्विभतिः स्याद्यवह्यङ्गष्ठमध्यगे।
शुक्लपक्षे जन्मरात्रौ वामाशिष्ठ गते पुनः॥ १५१ ॥ विद्येति । अनेकवस्तुतत्यपरीक्षारुपात्रविद्या नतुपठनपाठनरूपा तदेखायाः स्थानभेदात् ख्यातिः प्रसिद्धिर्विभूतिः स्वजनधनरूपा सम्पद् स्यात् अङ्गुष्ठमध्यपर्वप्राप्त-यवे अत्र सामान्यत एवाङ्गष्ठो ग्रायः । पुनर्वामहस्तऽतोगष्ठ गतेयवे शुक्लपक्षे रात्रौ च जन्मवाच्यम् ॥ १५१ ॥
कृष्णपक्षे दिवा जन्म दक्षिणाअङ्गष्ठगेयवे । विद्धाविद्धविवेकन पक्षस्य व्यत्ययःक्वचित् ॥ १५२ ।। कृष्णपक्षे इति । दक्षिणाङ्गुष्ठगे यवे कृष्णपक्षे दिवा जन्म स्यात् , क्वचिद्वयोरप्यङ्गुष्ठयोर्यवसद्भावे विद्धोवेधवांस्तदन्यो वा सम्यग् विमर्शनीयः तदाच क्वचित् शुक्लकृष्ण पक्षयोर्व्यत्ययोर्विपर्ययो ज्ञेयः ॥ १५२ ।।
"Aho Shrutgyanam"