________________
( २०२ )
अत्र मतभेद माह
शुक्लपक्षे तथा जन्म-दक्षिणाङ्गुष्ठगैर्यवैः । कृष्णपक्षे नृणां जन्म वामाङ्गुष्ठगतैर्यत्रैः ॥१५३॥
शुक्लपक्ष इति । दक्षिणाङ्गुष्ठगैर्यवैः शुक्लपक्षे जन्मवाच्यं वामाङ्गष्ठगतैर्यवैः कृष्णपक्षे पुरुषाणां जन्म, । अत्र दक्षिण हस्तेऽङ्गुष्ठयवे शुक्लपक्षे जन्मेत्युक्तं तत्केनाभिप्रायेणेत्यत्र बहुश्रुताः प्रमाणमन्यथा शुक्लपक्षः चन्द्र स्त्रीपुरुषः सूर्य इत्यादि स्वरोदयाद्यनुसारण, तथा शुक्लपक्षिका उत्तरस्यां कृष्णपाक्षिका दक्षिणस्यामिति सिद्धान्तपरिभाषया वामहस्तादेव बोध्यः । यद्वा यवैरिति बहुवचनाद्वहूनां बलवत्वेन ग्रन्थप्रामाण्याच्च दक्षिणहस्ते यथैः शुक्लपक्षो ज्ञेय इत्याशयः न पुनरेके न यवे नक्षत्र बहूनामथवैकस्य यवस्य स्यात् फलं समं तत् प्रायिकं, अन्यथा यव संख्याकत्वं पुत्राणां स्वयमेव विवेकविलासकृता प्रोक्तम् । तद्वयाहतं स्यात्, यद्वा शुक्लपक्षे हस्तवीक्षणे दक्षिणाङ्गुष्ठयवैः शुक्लपक्षे जन्मवाच्यम् । कृष्णपक्षस्य दक्षिणाङ्गुष्ठ यव प्राप्त स्यापि बाधात् शुक्लपक्षपदं, आवृत्या व्याख्येयम् । एवं कृष्णपक्षे इत्यपि पदं वार द्वयं योज्यं तेन न दोषः । तत्त्वं सर्वज्ञ गम्यम् ॥ १५३ ॥
प्रकरणेत्विति तुशद्वाद्विशेषमाह
दाहिण हत्थंगुठय मझय जत्रेण दिवस जम्मसे ।
वामांगुठ जवेण नूगं जाणिज्ज निसिजायम् ॥ १५४ ॥ दाहिणेति । दक्षिणहस्ताङ्गुष्ठमध्ये च यवे न दिवसजन्म तस्य । वामाङ्गुष्ठ यवेन नूनं जानीयान्निशि जातम् ॥ १५४ ॥ पुनर्यवस्य फलविशेषमाह
अङ्गुष्ठोदर मध्यस्थे यवे भोगी सदा सुखी । बहूनामथवैकस्य यवस्य फलतुल्यता ॥ १५५ ॥
अङ्गुष्ठोदरेति । अङ्गुष्ठोदरं अङ्गुष्ठमध्यभागस्तत् पर्वणि या रेखा तस्यामपि मध्यभागे यवसति भोगी उत्पन्न भक्ष्य भोक्ता गन्धमाल्य अन्नपान
"Aho Shrutgyanam"