________________
( २०० )
अविद्वास्तेऽध इति पक्षान्तरे जीवन्तः, एवं प्रकारेण सामुद्रिकं समुद्रसूरेर्वचः । भ्रातृभगिनीनां सारत्वात् भाण्डं वस्तु इति व्यवहारः ॥ १४४ ॥
अथात्र मतान्तरमप्यस्ति तस्य प्रामाण्य व्यञ्जनाय - आद्यश्लोकपाठपूर्व नामनिर्णिय तन्मतान्तरमा ह
आयुर्लेखावसानाभिर्लेखाभिर्मणिबन्धतः ।
स्पष्टाभिर्भ्रातरो स्पष्टा ताभिर्जामयः पुनः ॥ १४५ ॥
आयुर्लेखेति । मणिबन्धात् आरभ्य जीवितरेखां यावत् अर्थात् करमे रेखाभिः स्पष्टाभिर्भ्रातरः संख्येयाः अप्रकटाभिर्जामयो भगिन्यः
परिगणनीयाः ॥ १४५ ॥
,
अस्पष्टाभिरदीर्घाभिभ्रातृ जाम्यायुषस्तुटि: ।
यवैरङ्गष्ठमूलस्थैस्तत्संख्या सुनवो नृणाम् ॥ १४६ ॥
स्पष्ट | ह्रस्वा–अस्पष्टा रेखास्ताभिर्भ्रातृभगिनीनां आयुषस्त्रुटिमरणं ज्ञेयं, अङ्गुष्ठमूलेयावन्तो यवास्तावन्तः सूनवः पुत्रावाच्याः, सूनुशहेन पुत्राएव, अपत्यशद्वेन पुत्रपुत्री नपुंसकबिम्बादि गणनान्नाग्रेतनश्लोकेन पुनरुक्तिः ॥ १४६॥
अपत्यरेखाः सर्वास्युर्मत्स्याङ्गष्टतलान्तरे ।
हस्ते चिन्हेप्ये तदेव सम्मतं विदुषां मतम् ॥ १४७ ॥ अपत्येति । सर्वा अपत्यसंख्या रेखामत्स्यो मणिबन्धस्थः अङ्गुष्ठतलमङ्गुष्ठमूलं तयोर्मध्ये भवन्ति इदमेव मतं हस्तचिन्हसूत्रे सामुद्रिकतिलकेऽपि प्रागुक्तम् । आयुलेखेत्यादिसूत्रं राजयोगे सति आतृविषयं न चेत् पुत्रादाः करमे रेखा इत्यादिना विरोधः, राज्ञो भ्रातृणामस्तं प्राप्तत्वात् करभस्य सेवा स्थलत्वात्तत्रैव तद्रेखा न्याय्या । केषाञ्चिद्भ्रातृणामनाशेऽपि सेवकान्तर्भावात् राज्ञः पुत्रास्तु आमे यां दिशि अङ्गुष्ठमूले बर्द्धमानतेजसः पदस्थानोचिताः सोदया इति । सामान्यलोकानां भ्रातरसतेजसकाः पुत्रास्सेवा कारिण एव ॥ १४७ ॥
अत एव प्रकरणकार उभयमताविरोधेन सूत्रं बबन्धतदेवाह -
" Aho Shrutgyanam"
"