________________
( १९९ )
प्राहुः तत एव योगिन्याः पतिस्थाने धर्म शौचादिराचारः योगः - पञ्चाभि साघनादितपः कर्ममठाश्रमो गुरु पारंपर्यसंसर्गस्तस्य तत् प्रतिपालकत्वात्, अत एव एकस्माल्लक्षणान्नाना लक्ष्य विमर्शः प्रागुक्तः सिद्धः सिद्धान्तेऽपि ' स्वप्नफले रज्जवई राया जिणे वा इति पूर्वषणा कल्पे तथा रज्जवह राया अणगारेवा भावियप्पा ' इति फलद्वयकथनेनस्याद्वादात् ॥ १४१ ॥ पुत्रदा कर रेखा कनिष्ठाधः कलत्रकृत् ।
"
अङ्गष्टमूले रखास्तु भातृभाण्डानिशंसति ॥ १४२ ॥
ܘ
पुनः सम्मत्तिमाह
पुत्रदा इति । इदं भोजकृतसामुद्रिकोक्तं- तस्यादावयं लोकः लक्षग्रन्थे समाख्यातं विस्तरेण वरानने पुंलक्षणं झटित्येव कस्तं वर्णयितुं क्षम इति । करमे रेखाः पुत्रदायिन्यो लक्षणत्वात् कनिष्ठाधो वामहस्ते कलत्रकृत् स्त्रीलक्षणं अङ्गुष्ठमूळे रेखाभ्रातृभगिन्यादि लक्षणम् ॥ १४२ ॥ अथ सहोदर रेखाविमर्शमाह
मणेरङ्गमूलान्तं या रेखास्तलसम्मुखाः ||
11
सूक्ष्मास्ताहिभगिन्यः स्युभ्रातरस्थूलरेखिताः ॥ १४३ ॥
मणेरिति । मणिबन्धात् प्रारभ्य अङ्गुष्ठमूलस्य अन्तो यत्र कर्मणीति क्रियाविशेषणं या रेखा स्तलं गर्भकं तत् सम्मुखाः सूक्ष्मा स्ताभगिन्यः स्मृताः रेखितं यासां तास्तथा रूपरेखा भ्रातरो लक्षणया भ्रातृलक्षणं भवन्ति तासां रेखाणां समत्वे प्रथमं भगिनीजन्मवैषम्ये भ्रातृजन्माङ्गुष्ठमूलान्मणिसवम्मुखगणने लघुरेखा भवने स्वतः पश्चाद्भगिनी रेखावृद्धौ स्वतः पश्चाद्भ्रात त्यपि भावनीयम् ॥ १४३ ॥
तत्रापि विशेषमाह-
तासु या अस्कुटा रेखा स्तावन्तो निधनं गताः ।
याकुटा स्तथा जीवत इति सामुद्रिकं वचः ॥ १४४ ॥ तासुया इति । तासुरेखासु या अप्रकटा रेखा उपलक्षणात् छिन्नाभिन्ना विद्वावा तावन्तः सहोदराजीवा भ्रातृभगिनीरूपामरणं प्राप्ता या रेखाः प्रकटा
"Aho Shrutgyanam"