SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ स्त्रियः स्युः । कदेत्याह-राजयोगे सिंहासनादि वक्ष्यमाण राजलक्षण सद्भावे, एतन ग्रन्थान्तरे “ कनिष्टा मूलरेखाया माणिं यावञ्चरेखिकाः । "तावत्यो महिलास्तस्य स्त्रियास्तावन्मनः प्रियाः ॥१॥" इत्यपि निश्चितं ननु क्वचित् कनिष्ठाधः स्त्रीरेखा १ ग्रन्थकृन्मते वामहस्तायूरेखा २ राजयोगे तारा मूलादिल्यादिना स्त्रीरेखा उक्ता तथा रेखाभिः करमे वामे वणिक पुत्राश्च सेवका इति वचनं तर्हि अपत्यरेखा नवकाश इति चेन्न राजयोगे मातृरेखाया अप्रयोजनात् मणेरङ्गुष्ठमूलां तं यावत् अपत्यरेखा ज्ञेया, अत एवाग्रे विवेक विलासोक्तं, अपत्यरेखाः सर्वाः स्युन तथाङ्गुष्ठ तलान्तरे इति गृहीतं राज्ञः प्रायो भ्रातृनाशादनाशेऽपि सेवकान्तर्भावात् पितृरेखातोअगष्ठ सम्मुख पल्ववैरेव साहाय्यकारिमात्रत्वे नगणनं यद्वा क्षुद्रराज्ये स्पर्धा कारित्वे नवक रूपकरभरेखाभिरेव दक्षिणे भ्रातृभगिन्यादि गणनं युक्तं वामहस्ते करमे स्त्रिय एव संख्येयाः ।। २३१॥ । अत्रार्थे सम्मातिमाह___स्युर्यावन्त्योन्तरे रेखा मणिजीवित रेखयोः । तावतीमहिलास्तस्य स्त्रिया स्तावन्मनः प्रिया ॥१३२॥ स्युर्यावत्य इति । उक्तार्थम् ॥ १३२॥ अथ स्त्रियास्तावन्मनः प्रिया इत्येतस्य संगतिमाह -- स्त्रिया दक्षिण पाणिस्था पतिरखा प्रकीर्तिता। आयुरेखात्र तद्भेदे योगःस्याद्विधवाकरः ॥ १३३ ॥ स्त्रिया इति । स्त्रीणां दक्षिणपाणौ जीवितरेखा सा भर्तृरेखा स्मृतास्तस्याभेदे विधवा रण्डा तस्य योगः स्यात् । तस्यावेधे, असतीत्वयोग इति ॥ १३३ ॥ तदा वामकरे तारा मूलदा मणिवन्धनम् । रेखायावत्य उद्भूतास्त्रिया स्तावन्त ईश्वराः ।। १३४ ॥ तदा वामकर इति स्पष्टम् ॥ १३४ ॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy