________________
( १९५ )
दीहाहिकोमारी कुडियाहिं पुण्णभवे वियाणी ।
आसहाहियो सोहग्गं कुडियाहिं विंदूयं जाणदुहथं ॥ १२९ ॥ दीहाहि इति । दीर्घाभिः प्रलम्बाभिलेखाभिः कुमारी स्त्री परिणयतं एकया रेखया एकशो रेखाद्वयेद्विर्विवाह रेखात्रये त्रिरिति स्फुटिताभिर्लेखाभिः पुर्नर्भुवं घारितां वा विजानीयात् स्निग्धाभिः स्त्रिया बहुसौभाग्यं सुडियाहिं इति । त्रुटिताभिर्छिन्नाभिर्लेखाभिरपि दूझं दुर्भगां जानीहि एवमेव फलं भर्तारमुद्दिश्य स्त्रिया दक्षिणहस्ते विमर्शनीयं यद्यप्यत्र वामे वा दक्षिणे इति विवृत्य नोक्तं तथापि वामभागे तु नारीणामिति सूत्रानुवृत्तेर्यथायोगं ग्राह्यम् ॥ १२९ ॥
अथास्या रेखाया विपक्षमाह -
दीक्षा रेखाबलवती पुरस्था चेन्महत्तरा |
दीक्षा रेखा बल
बाधयेदाररेखा तदा मित्रोदयं वदेत् ॥ १३० ॥ दीक्षेति । आद्याऽधः स्थातु दीक्षणमित्यग्रे वक्ष्यमाणा चती स्यात्, बलं चात्र सूक्ष्म १ स्निग्ध २ गम्भीर २३ लम्ब ३४ पिङ्गल २५ अव्यावृत्त ६ अछिन्न ७ अभिन्न ८ अविरुद्ध ९ सम ० अस्थानच्युत ११ पूर्णा १२ ख्यद्वादशगुणयोगस्तत्सहिता । पुरःस्था हस्तस्य दक्षिणस्य अग्रभागो स्थिता, आद्याङ्गुल्या अधः स्थानात् पूर्वभागे स्पष्टा चेद्यदि महती सादाररखां बाधयेत् फलप्रतिबन्धाद्विफलां कुर्यात्तदा स्त्रीरखा कस्य चित् प्रियमित्रस्य परमभक्तसेवकस्य वा उदयं वदेत्, एवं स्त्रीरेखानिर्णये पितृरेखाङ्गुष्ठ रेखान्तरे या ऊध्र्व रोखेका इत्यादिना हस्तचिन्हे दाररेखा उक्तास्तत् सूत्रं स्वपरस्त्रीभोगलक्षणं न पुनर्विवाहादिसंस्कारप्राप्त स्त्री विषयं बोध्यम् ॥ १३० ॥
अथ राजयोगे सति विशेषमाह
तारा मूलान्मणिं यावत् रेखा यत्संख्यया स्फुटाः । तावती महिलास्तस्य राजयोगे विनिर्दिशेत् ॥ १३१ ॥ तारेति । कानेष्ठा मूलात् प्रारभ्य मणिबन्धयावद् यावत्योरेखा स्तावत्यः
"Aho Shrutgyanam"