________________
( १९७) अथ लक्षणानामन्योन्यबाधे प्राचांवचनमाह
पुष्टं यदेवदेहेस्याल्लक्षण वाप्यलक्षणम् ।
इतरद्वाध्यते तेन बलवत्फलदं भवेत् ।। १३५ ।। पुष्टमिति । पुष्टं बलयुक्तं लक्षणं विरुद्धलक्षणं वा. इतरन्निर्बलं तेन बलवता बाध्यते तत्फलं निषिद्धत इत्यर्थः ॥ १३५ ॥ निगमनमाह--
तथाच योगिप्रभृते यस्य स्त्री संगमो नहि ।
दाररखासिक्त शिष्ठां दत्तेत्वन्या प्रभुत्वकृत् ॥१३६ ॥ तथा चेति । यस्य योगिनः स्त्रीसङ्गमो नास्ति तस्य हस्ते स्त्री रेखा शुभाभक्ति भाजनं शिष्यजनं दत्तेतु पुनः अन्या शिष्यसेवक भाग्यादिरेखा प्रभुत्वमैश्वर्यं करोति; यद्वा लक्षणानुरोधाल्लक्ष्य, तथा क्वचिल्लक्षम्यानुरोधेनापि लक्षणप्रवृत्तेस्तत एव देवानन्दाया गर्भापहार लक्षणानां स्वप्ना नामप्यहारः सिद्धान्त सिद्धः ॥ १३६ ॥
स्त्रीरेखावत्तापसयोग भान्यादि रेखया वामहस्तगतया किं विमर्शनीयमित्याह---
लक्ष्मी राज्यं वाहनादि नृणां वामकरादिह ।
ज्ञानमैश्वर्य वंशादि वीक्ष्य दक्षिणपाणितः ॥ १३७ लक्ष्मीति । वामकरे योगिनो धनरेखया लक्ष्मीः ऊर्द्धरेखाया राज्य वाहानरेखया वाहनेभ्यो लभ्यं इहतापसयोगे वाच्यं दक्षिणपाणितो धनरेखया शुद्धज्ञानं सुखसन्तोषात्मबोधादिकं ऊर्द्ध रेखया ऐश्वर्य गोत्ररेखया बंशादिकं लक्षणीयामित्यर्थः ॥ १३७ ।। __ अथैवं योगिनो लक्षणनिगमने योगिन्याः पतिरेखायां किं वाच्यः मित्याह
योगिन्यासुखं पत्युस्तस्या दक्षिणपाणितः।
ज्ञानं यात्रा तपःशौचं गुरुसौख्यं निरीक्ष्यते ॥ १३८ ॥ योगिन्या इति । पतिरेखया ज्ञानं यात्रातीर्थप्रणतिः संयमो वा तपः चौ.
"Aho Shrutgyanam"