________________
( १८७ )
अत्र विशेष बोधाय भागानाह
वीसंति संचालं पन्नाससंसठी सतरि असिइ । नव इकणिठिया उपएसिणि जावजाणिज्जा ॥ १०६ ॥ वीसमिति । विंशति १ स्त्रिंशच्चत्वारिंश ३ त्पंचाशत ४ षष्टि ॥ सप्तति ६ अशीति ७ नवत्यः एतावन्ति वर्षाणि कनिष्ठातः प्रारभ्य प्रदेशि नीं यावदायुजीनीयात्, एतद्वचनादेव कनिष्ठादिक्रमः श्रेयान् नाङ्गष्टतर्जन्यादिस्तेन विवेकविलासक्तां संख्यां किञ्चिद्व्यभिचारिणीं दृष्ट्वा न भ्रमणीयम् ॥ ६ ॥
अथैषां निर्णयहेतुमाह----
करजां वा चतुष्काघोभागा नष्टौ प्रकल्पयेत् । यथाप्तं तत्तुरेखाया माद्योलङ्घनतः शतम् ॥ १०७ ॥ करजाम्बेति । करजाम्बा यद्यपि पदान्नखाजायन्ते तथापि पादस्या लक्षण तुशस्थानात्करे सर्वांगीण लक्षणात् प्राधान्ये नैवं रूढिः यद्वा पादनखा सन्तोप्यसन्त एव करनख प्रतिबिम्बरूपात् ज्येोतिषां करनखानां देवास्तद्रूपा द्वा तेषां अम्बे व मातेव करजाम्बा अङ्गुल्यः तत्राष्ठस्यापि क्वचिद्महणात्त निवारणाय चतुष्कमिति । तस्याधोनीचैः प्रदेशेऽष्टाविति सूत्रे विंशत्याद्यष्ट-कस्यैव पाठादन्यथा भागान्न च प्रकल्पयेत् - चिन्तयेत् । शंकु दवरकं वातद्रेखा प्रमाणं कृत्वा भागान् कुर्यात्, यथा जीवितरेखायां तर्जन्या उल्लङ्घने शतं आप्तं, लब्धं निश्चीयते । नन्वेयं पञ्चभिदर्श वर्षाणीति वचनाद्दशवर्षायुर्निश्चयोऽपि वाच्यस्तथा च दशावस्था वदशभागाशतादधिकायुषि द्वादशत्रयोदश वा भागा: स्युरिति चेन्न; द्वादशवर्ष पर्यन्तं हस्तवीक्षणस्य रेखाणामप्राकट्यानयुक्तिः पञ्चभिर्दशवर्षाणीति सूत्र विंशत्यादेद्रढीकरणाय तेन भागनवकमेव.. अधिकेत्वायुषि प्रागेवकृतोत्तरत्वादिति ॥ १०७ ॥
अत्र भाष्यं
पूर्वपरवाक्ययोजनाय एवमिति स्पष्टम् । अथ क्रमप्राप्तं धनरेखाविमर्शमाह
"Aho Shrutgyanam"