________________
(१८८)
अस्ताचलाद्रव्येरखा रक्ता खण्डाधनप्रदा।
तस्यां चेत्पल्लवाजीव रेखा मुखा-अपत्यदा ॥ १९८ ॥ अस्तचलादिति । स्वसमये उदयास्ताचलयोरक्यात् हिमवन्नामानगः स्वर्णमयो भरतक्षेत्र सीमाकारी तत्रैव लक्ष्म्याः स्थानात वसुधाराया घनदपुच्या लक्ष्मी स्वरूपेण बौद्धैः पठनाद्वा लोकेऽपि
'अम्त्युत्तरस्यां दिशिदेवतात्मा हिमालयो नामनगाधिराजः' इति कुमारसभ्भवकाव्ये अनन्तरत्नप्रभवत्वेनोक्तः ।
यथा लोके एकैवदिक् इन्द्राश्रये ऐन्दी पूर्वावरुणाश्रये वारुणी पश्चिमा इति भेदद्वयविकल्पात्, द्वेधा जैनमतेऽपि, आकाशास्तिकाये एकद्रव्यत्वंऽपि षट् द्रव्यसाहित्य विकल्पाल्लोकाकाशमलोकाकाश इतिद्विधा प्रसिद्धि म्तद्वेदत्रीप तत्रापिहिमवन्नगे यत्र सूर्य उदेति तदंशे उदयाचलो यत्रास्त मेति । तत्रास्ताचल इति ततोद्रव्यरेखा प्रभवति सा रक्ता सम्पूर्णा धनप्रदा मत एव मातृरेखापीयमेव । स्त्रीणां लक्ष्मीरूपात् किञ्चदारिद्र्यनाशन इतिवचनात् दीपोलक्ष्मी लक्षणं तत् प्रकाशोऽपि पश्चिमायामस्ताचले सूर्यप्राप्तेः स्यात् रात्रौ सौर तेजोदहनं विशतीति लोक्तोक्ति प्रामाण्यात् तस्यां धन रेखायां ये पल्लवा जीवितरेखा सम्मुखास्ते अपत्यदास्तावद्वार, अपत्यानि स्त्री तस्य पुंसः प्रसूते संतानरूपमेव धनं नान्यद्धनमित्यर्थः । यद्वा तावदपत्यसुखमेव धनसुख मन्तव्यं तेनाग्रे वक्ष्यमाण सन्तानरेखाभिर्न पुनरुक्तिः ॥ १०८ ॥
अङ्गुष्टसम्मुखा येते तावद्वार धनार्जनम् ।।
तस्याच्छेद राजदण्ड चौराद्धानिस्तु वेधतः ।। १०९ ॥ .. अङ्गुष्ठेति । ये पुनरङ्गुष्ठसम्मुखास्तावद्वद्वारं धनार्जन विभवप्राप्तिः । तस्या धनरेखायाछेदे राजदण्डः, बेधे तस्करभयम् । पितरेखातो निर्गत्य कापिलरेखा धनरेखायां याति तदापितृधन भोक्ता । जीवरेखाया मातृरेखा स्वल्पा तदाजीवत्यपि नरे धनहानिर्भहती चेत् धनरेखायां कापिरेखा करभानिर्गत्य मिलति, तदा पश्चिमदिशोलभ्यं सन्तानार्जितधनभोगः परधनं वा प्राप्नोति, तत्रापि वज्राकारे पतिते मन्त्रिपदं आयरेखातः पल्लवो निर्गत्य
"Aho Shrutgyanam"