________________
(१८६) चतुष्किकेति । चउकडीति । लोकप्रसिद्धा यदा अङ्गुष्ठगोत्र लेखयोमध्येस्यात्तदा वृश्चिकेन, दष्टः सर्पदष्टोवा यदात्रिकोणकं तदा कुकुरशृगालव्याघ्रदिदशः तत्रैव शृङ्गाकारे शृङ्गिणो भयमित्यादि ज्ञेयम् ॥ ९९ ॥
मित्रपीडा मातृरेखायुरेखा मूल सङ्गमे । ।
यौवने सुख भोक्ता स्यादङ्गुष्ठावयवे यवे ।। १०० ॥ . मित्रपीडेति । मातृजीवितरेखयोमूले मीलने मित्रात् मित्रस्यवा दुःखम् । दुःखे यवे यौवने सुखसंभोगात् स्त्रीवल्लभः ॥ १०० ॥ ___ इह यद्यपि अन्यकृतस्वनिवन्धेऽपि भ्रातृपुत्र रेखादिविमर्श वक्ष्यति, तथाप्य पुरातनाचार्य ग्रन्थव्याख्यानुरोधाद्वयाख्यातस्तेन न पुनरुक्तिः । अथ प्रकृतमायुलेखा विमर्शमेवाह
कनिष्टाङ्गुलिदेशाच्च रेखागच्छति मध्यमाम् । अविछिन्नानिवर्षाणि शतमायुर्विनिर्दिशेत् ॥१०१।। कनिष्ठागुलिदेशाच्च रेखागच्छति मध्यमाम् । अविछिन्नानिवर्षाणि अशित्यायुर्विनिर्दिशेत् । १०२ ।। कनिष्टाङ्गुलिदेशाचरेखा गच्छत्यनामिकाम् । । अविछन्नानि वर्षाणि षष्टिमायुर्विनिर्दिशेत् ॥ २०३॥ कनिष्ठाङ्गुलिदेशाच्च रेखा तत्रैव गच्छति ।
त्रिंशद्वा विशवर्षाणि तस्यायुः परिकीर्तिता॥१०४ ।।। कनिष्ठेत्यादि श्लोकचतुष्टयं स्पष्टम् । १०१-१०२-१०३-१०४ अन्थान्तराप्तं विशेषं तदुक्या वाह----
कालांमुलीइ रेहा पए सिणिलंधि उण जस्स गया ।
अखंडा अफुडिया बरिसाण सयं च सोजीयइ ॥ १०५ ॥ कालाङ्गुलीति । काला-श्यामा अङ्गुली कनिष्ठा राहुशन्योरधिष्ठा नाद्रात्रिप्रत्यासतेश्च तन्मुला लेखाप्रदेशिनी विलय यस्यागता अखण्डा अस्फुटिता वर्षाणां शतं सजीवेत् ॥ ५ ॥
"Aho Shrutgyanam"