________________
(१८५) तर्जन्यचत्रिवेण्यन्तर्यदा रेखाद्वयं भवेत् ।
आद्यादैर्येपितुर्मृत्युः प्रथम मातुरन्यथा ॥९४ ॥ तर्जन्यध इति । रेखाद्वयं मृत्युरेखातस्त्रिवेणीमध्यगतं स्यात् तन्मध्ये प्रथमा त्रिवेणी तो गणनापेक्षया तस्या वृद्धत्वे प्रथमं पितुर्मरणं, अङ्गुष्टे भागानुषङ्गात् , द्वितीया मृत्युरेखा पार्श्वस्था तस्यादीर्घत्वप्रथमं मातुर्मरणं स्यात् , अङ्गुलीप्रसङ्गात् ॥ ९४ ॥
पितृरेखा मातृरेखा मिलने गहबन्धकः।
कलत्रमित्र सम्बन्धो वामे तत् सङ्गमे करे ॥ ९५ ॥ पितृरेखेति । गोत्ररेखाधनरेखयोर्यस्य त्रिवेण्यां स्पष्टोयोगस्तदा गृहबन्धोगृहकार्यभारम्तेन निर्वाह्यते वामहस्ते तयोर्मीलने कलत्रपाक्षिक वैवाहिकलोकेन तथा मित्रैर्भूयान् स्नेहः । अमीलने तदभावः । ९५ ।।
कनिष्ठा यदि दीर्घास्थादूई रेखा समाश्रिता । __ व्यवसायात्तता लाभो यशस्तस्य महोज्ज्वलम् ॥ ९६ ॥
कनिष्ठेति । यदा अनामिकायाः कनिष्ठा दीर्घा तस्यां पुनरूद्धरेखापि भवेत्तदा तस्य व्यापारे लाभः यशोऽपि बहुलम् ॥ ९६ ॥
आयुरेखान्तरा छेदे जलाद्वा ज्वलनाट्यम् । स्त्रीप्रसङ्गादपयशः तथाल्पमृति सम्भवः ॥ ९७ ॥ आयूरेखेति । जीवितरेखायां छेदेऽग्रतः पुनः सन्धाने जलात् , अग्नेर्वाभयम् । वामहस्ते जीवितरेखा छेदे स्त्रीप्रसङ्गा त्तत्याक्षिकाद्वा अपवादः तथा स्त्रियाः अल्पमृत्युरावलीति प्रतीता जायते ॥ ९७ ॥
अन्तेयदायूरेखायाः रेखाङ्गुष्ठधनोन्मुखी ।
तदापूर्व सुखी पश्चाददुःखी वा निर्धनः पुमान् ॥९८॥ ___ अन्त इति । यदायुरेखाया अन्ते अन्तोऽत्र मूलरूपस्तत्र रेखानिर्गतासा अङ्गुष्ठ धनरेखयोः उन्मुखीस्यात्तदापूर्व सुखीभूत्वा पश्चाद्दुःखी नरो वा नारी स्यात् ॥ ९८ ॥
चतुष्किका स्यादगृष्ठ पितृरेखान्तरे यदि। तदा वृश्चिकदंशः स्याद्धंष्ट्रायां दंष्ट्रिणोभयम् ॥ ९९ ॥
"Aho Shrutgyanam"