________________
(१८४) त्यस्तत्प्रमाणाः पुत्रिकाः यस्यां रेखायां भेद छेदो वेधोवा तावदपत्यमरणं, अन्यथा जीवनम् ॥ ८९ ।।
बन्धुसंख्यावदन्त्यके निर्णेयं तदगुरोगिरा; __ आयुरेखापल्लवाः स्युनियेगुलि सम्मुखा ।। ९० ।। बन्धुसंख्यामिति । केचनाचार्या-अङ्गुष्ठमूले मणिपर्यन्त लेखाभिभ्रातृ भागनी संख्यां वदन्ति तदभिप्रायः । प्रायोबहुश्रुतगम्यः । तत्र व्याख्यान्त्यपरे महतिराजयोगे हस्ते विद्यमाने बन्धूनामनुपयोगात् , अशष्ठमूले पुत्रपुत्री परिगणनं पदरेखाया अत्र प्रत्यासत्तेस्तदा करभप्रिया: सेवकाः परिगणनीया । सामान्यलोकस्य चाङ्गुष्ठमूले भ्रातृभगिनी संख्याकरभे पुत्रदारिकयोरिति । आयुर्लेखायां अङ्गुलि सम्मुखाः पल्लवहानि सूचकाः ॥ १० ॥
अगष्ठसम्मुखाः सर्वे द्रव्यसम्पत्तिकारिणः।
मातृरेखापल्लय स्तर्लभ्यं मातुलबर्गतः ॥ ९१ ।। __ अङ्गुष्ठेति । राज्ञः सम्मुख जीवितरेखापल्लवा द्रव्यपाप्ति कारिणस्तत्रापि वर्षपरिज्ञानं तत्तत् स्थानभागादेव एवं मातृरेखापल्लवप्वपि वेद्यम् ।। ९१ ।
तदेव वक्ति --- आयुरेखा सम्मुखैस्तैनलभ्यं मातृपक्षतः ।
कनिष्ठानामिकायोगे स्नेहः स्यात् स्वजनैदृढः ॥ ९२ ।। - आयुरेखेति । मातृपक्षो मातुलादिः कनिष्ठानामिकयोः सम्बन्धे स्वजनस्नेहः ।। ९२ ॥
व्यतिरेकमाहसान्तरत्वे न योः पूर्तिः छेदः स्यादन्तरान्तरा । छिद्राङ्गुलिभिर्दारिद्यं सान्द्राभिर्द्धनवान्नरः ॥ ९३ ॥ सान्तरत्व इति । एवं च एक लक्षणं फलद्वय सम्पादक यवाद्विद्या कीर्तिः सम्पत् शुक्लपक्षादिवदेकस्माल्लक्षणाबहु फललाभस्यानन्तरायात् ॥ ९३ ॥ . . . . अथ मातुः पितुर्वा प्रथमं मरणमित्याश्चर्यपरिज्ञानमाह
"Aho Shrutgyanam"