________________
(१८१)
सायुधस्थान, भोजनं, पश्चिमायां वायो धान्यसंग्रहः उदीच्यां जलस्थानं, ईशान्यां देवगृहमिती वस्तुप्रातत्या हस्तरूप सर्वगृहं ज्ञेमम् । तेनसूतिकालयः कनिष्टामूलं महानसंतु, अशष्ठमूले तत्रैव भ्रातृभगिनी प्रभृतिरेखा सम्बन्धात् मङ्गुष्ठः स्तम्भोगुल्यः पद पाठिका वासोगृहं करभे पाश्चमाया मध्ये भाण्डागार इति । अत्र निधिलाभायविमों नरपति जयचर्या प्रोक्ताहि वलय चक्रवत् हस्तनक्षत्र चक्रेऽष्टाविंशति नक्षत्र स्थापनात् पूर्वस्यां मध्ये कृतिकाव्य वस्थानाच्च यत्रतत्काले हस्ते क्षणे चन्द्रस्तत्र निधिस्तल्लाभावमर्शस्तग्रन्धादेव वेद्य इति ।। ७५ ॥
तस्य मध्योन्नता रेखा विदग्धीयते सदा ।
हताशुरेको द्वाभ्यांच त्रिभिः सह मृतर्जने ॥ ७६ ॥ तस्येति । दैवतालयमध्ये उन्नता रेखात्रिवेण्याः परतारे तर्जन्याः, अधोभागे यदा एका तदा नरएक एवं हताशुगतप्राणः स्यात् एक एव म्रियत इत्यर्थः । द्वाभ्यां रेखाभ्यां द्वा भ्यां सह नियते चकारानेखात्रये त्रिभिस्त्रित्वस्य बहूत्वोपलक्ष णावहुभिः सह मृत्युरिति पण्डितै यिते ॥ ७६ ॥ - तत्रापि विशेषमाह
रेखामिस्तिसृमि नणां जले मृत्युश्चनान्यथा । - चतुर्थ्या रेखया शत्रुरण मध्ये मृतिर्भवेत् ॥ ७७ ॥ रेखाभिरिति । अत्र सामान्योक्तावपि वामवेध विद्धरेखात्रये जलेमत्युरेतलक्षणं, अन्यथा सत्यमेव इत्यर्थः रेखा चतुष्टये रणे संग्रामे मृत्युः ।।७७॥ अथ यशोभाग्यादि लक्षणमाह--
अगष्ठोद्ध यवः पूर्णः सदा पुंसां यशस्करः ।
मध्य वेधे भवेदध पञ्चाशद्वर्षतः परम् ॥ ७८ ॥ - अङ्गुष्टो मिति । अङ्गुष्ठस्योपरि भागे सूराधिष्टित मध्यपर्वणो मूर्द्धानि यवः पूर्ण अखण्ड पुंसां सदा यशस्करः तत्र पुंसां दक्षिणे स्त्रीणां वामेगष्ठे, इति सर्वत्र ज्ञेयम् । वामभागे तु इत्यादि सामान्यसूत्रानुवादात् तत्रापि मध्ये वेधे सति पञ्चाशद्वर्षतः परतो यद्वा अर्द्धमिति कोऽर्थः स्वायुषोऽनुसारात्
"Aho Shrutgyanam"