________________
( १८० )
मध्याङ्गुलीति । अत्र विवेकविलासे, अनामिका तलेधर्म रेखा कथनामतान्तरं यद्वा पूर्वश्लोके छलछद्मादिकथनात्, अकारप्रश्लेशे अधर्म रेखा प्रोक्त किञ्चिद्विश्वस्तघातादि महापातकं तस्य लगति । नन्वेवं श्लोकामे धर्मपदद्वयविरोधः, न च वाच्यं सा वज्ररेखा वाज्रकारीऽनामिका मूलगतएवेति । तस्याग्रे विविच्यपाठादिति चेत् न तत्रापि स्वश्रद्धया, अघार्मिकः कदापि श्रद्धयाधर्मं न शीलतीत्यकार प्रश्लेष एव व्याख्यानात् । नन्वयमा कृष्टोऽर्थः प्रतिभाति, इति चेन्न; हस्तबिम्बे विवेकविलासे चाधर्मरेखास्थानात् युक्तार्थत्वात्, अत एव विप्राणां जापे मध्यामूलपर्वणि न स्पर्शः यद्वा वामहस्ते मध्याया मूले धर्मररेखा दक्षिणेऽनामिकामूळे इति ॥७३॥ वज्रधिकारात् स्थानान्तरेऽपितत्फलंप्राह
वज्र - अनामिकामूले तत् प्रतिष्ठाविधायकम् ।
तस्मिन्भिने भवेद्भेदो मध्ये रेखात्र मध्यमा ॥ ७४ ॥ वज्रमिति । स्पष्टम् । मध्ये वज्रमध्ये लेखामध्यमा प्रतिष्ठा
कृता ॥ १४ ॥
मृत्युरेखा स्थानमाह
अष्टादों शत्रुहांत दैवतस्यालयं भवेत् । लक्ष्यणं तस्य वक्ष्यामि मृत्युर्येनेह बोध्यते ।। ७५ ।।
ध्वंस
अङ्गुष्ठादाविति । अङ्गुष्ठात् प्रारभ्या न्तेशत्रुहा तर्जनी इदं दैवतस्यालयं स्थानं पीत्र्यतीर्थत्वात् ओ इत्यव्ययं, यद्वा आदिशद्धोऽत्र नव्यवस्थावाची किन्तु प्रकारवाची तथाच अङ्गुष्ठरुपोय आदिमूल स्तत्र शत्रुहारूपो यः अन्तपर्यक सानं तस्मिन् दैवतं देवभाव: स्वर्गमनं तस्या लयंस्थानं स्यादित्यर्थः । अन्यथानन्वयः । अन्यथा वासूत्रकाराणां विचित्रागतिरिति न्यायादेवं निबन्धः । तस्य स्थानस्य लक्षणं लेखाद्याकारे वक्ष्यामीति क्रियोपादानात्, अधिकार रा न्तरं व्वन्यते । येन लक्षणेन मृत्युरिह हस्ते ज्ञायते अङ्गुष्ठाङ्गुलमध्यस्य क्षिप्रमाक्षेपमारणमिति, वाग्भटेऽपि मृत्यु स्थानसूचनात्, अत्र केचिदाहुः -दैवतालयकथनात् पूर्वस्यां श्रीगृहं, आग्नेय्यां महानसं दक्षिणस्यांशयनं, नैऋत्या
"Aho Shrutgyanam"