SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ (१७९) किञ्चिद्भावज्ञापकं लक्ष्यते ज्ञायते अनेन सर्वं हस्तरेखामानं लक्षणमेव मन्तव्य नालक्षणमित्युक्तम् ॥ ६८ ॥ स्वस्त्रिधा-तमेवाह---- वामेवामेऽत्रवेधेन जले मृत्युं समादिशेत् । - रेखा सरलवेधेन शस्त्रेणमृत्युमादिशेत् ॥ ६९ ॥ वाम इति । स्रष्टम् ॥ ६९ ।। दक्षिणेदक्षिणेवेधे वन्हिसर्पभयान्मृतिः। वामदक्षिणपार्श्वस्थाद्वेधान्मृत्युमहारुजः ७० ॥ दक्षिण इति । दक्षिणवेधेऽपि वेधकारिणीया रेखा सा वेधमुद्दिश्य दक्षि. णगा परं मुखे स्थूला तदासात् मुखे तनुत्वे वन्हेमृत्युरिति विवेक सर्पस्य मुखे स्थूलत्वात् वन्हेालामुखे तनुत्वादिति । उभयोर्वेधयोर्युगपद्भावे महारोगात् मृत्युः क्रमादुभयतो वेधे तत्तद्वर्षे तत्तत्पूर्वोक्तवस्तुतोभयमेव न मृत्युस्त्यिर्थः ॥ ७० ॥ आयुर्विचार्य धनविमर्शमाह--- धनरेखायस्य दी| तस्य धान्यमहाद्भुतम् । मित्ररेखा मवेद्भिन्न द्रव्यव्यय समाकुलम् ॥ ७१।। धनरेखेति । रेखा भेदो नाम मुखे मूले वा रेखायां मार्गद्वयं तदाद्रव्ये व्ययो महान् ॥ ७१ ॥ नतिष्टति चिरंकालं त्रिशूलस्थानरेखया । मध्यत्रिशूले तद्रव्यं छलछमादिसम्भवम् ॥७२ ॥ न तिष्टतीति । मूले धनरेखायाः स्त्रिमार्गत्वे त्रिशूलं, तदपि रेखाया मध्ये युगपद्वामदक्षिणमार्गद्वये मधेत्रिशूलं स्यात्, तदा धूर्तगलकतकग्रन्थिभेदादि कुव्यापारजातं धनम् ॥७२।।' · धर्मरेखास्थमाह--- मध्यागुलीमूलगता धर्मरेखा निवेदिता । वज्ररेखा भवेद्यस्य स्वश्रद्धाधार्मिकोहि सः॥७३॥ "Aho Shrutgyanam"
SR No.009535
Book TitleHasta Sajjivanama
Original Sutra AuthorN/A
AuthorMeghvijay
PublisherMohanlalji Jain Granthamala Indore
Publication Year
Total Pages322
LanguageSanskrit
ClassificationBook_Devnagari & Jyotish
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy