________________
( १७८ )
कालहानि नयापेक्षं ज्ञेया विंशतयोऽपि च । आयुरेखास्वरूपाश्च अल्पमृत्युर्विचार्यते ॥ ६६॥
कालेति । कालस्य कालजन्यपदार्थस्य अवसप्र्पणात् तं नयं विचार्य उच्यते तदा तावद्विंशतिकावाच्या । कालस्यावसर्पणं वोत्सर्पणं नियतो धर्मः; दक्षिणोत्तरायणवत्, अथायुर्लेखामहती दृश्यते, स्वल्पेनापि कालेन मृत्युस्तस्य जायमानः श्रूयते । तत्र का गतिरित्या शङ्क्याह - आयुलखास्वरूपं विलो - क्याल्यमृत्युर्विवक्षितः कालादल्पेन कालेन मृत्युरल्पमृत्युरपि जन्तो
विचार्यते ॥ ६६ ॥
अथ रेखाविमर्शनं साक्षाद्वक्ष्यते । प्राक्तनोक्तिभिरितेि प्रतिज्ञानात् लोकानां प्रत्ययकारणं प्राचीनं हस्तचिन्हसूत्रमेव लिख्यते तत्र प्रथम: श्लोकः ।
हस्तचिन्हं प्रवक्ष्यामि गुरुक्तं श्रद्धयान्वितम् । लक्षणे ज्ञायते सद्यो जीवितं च शुभाशुभम् ॥ ६७ ॥ हस्तचिन्ह मिति । हस्तस्यचिन्हं रेखादिलक्षणं प्रकर्षेण फलयोजनरूपेण वक्ष्यामि कथायेष्यामीति सम्भावनार्थे प्रत्ययः । गुरुणा उक्तं एतेन पा पर्यागतोऽयमर्थ इति ज्ञाप्यते श्रद्धया सत्यमिदमिति, प्रतिपत्त्यासहितं इत्यनेन लक्षणज्ञाने श्रद्धाया एव मुख्यत्वं व्यञ्जितं प्रपञ्चितं चैतद प्राकू लक्षण प्रकथने विधेयं किमित्याह - रुक्षणैर्लेखादिभिः सद्यो ग्रहादि विमर्श विना जीवितं आयुज्ञायते चकाराद्वनगोत्र भाग्यादि न केवलं शुभमेव किन्तु अशुभमप्यर्थहान्यादि शुभज्ञानेऽशुभज्ञानावश्यं भावात्, अशुद्ध रुप्यक ज्ञानं विना शुद्ध ज्ञानस्याभाव एवेति शुभाशुभग्रहे सर्वस्यापि संग्रहात् जीवि तस्य पृथग् भणनं प्राधान्यार्थम् ॥ ६७ ॥
------
आयुरखात्र तर्जन्यां तस्याष्टशतमायुषः । वेध्यारेखाभवेद्यस्य लक्ष्यते तस्य लक्षणम् ॥ ६८ ॥
आयुरेखेति । यस्य जीवितरेखा तर्जन्यां प्राप्ता भवति तस्याष्ट्र - शतवर्ष जीवीत्वं आयुर्लेखायामन्तरालेऽन्या रेखापतति सानिर्धनः किन्तु तदपि लक्षणं
"Aho Shrutgyanam"