________________
( १५२ )
अर्द्धवयोयावत् यशस्करः । अविद्धस्तु सदा यावज्जीवमिति भावः ॥ ७८ ॥ करादौ दृश्यने रेखा लक्ष्मी सौभाग्यदायिनी ।
तस्याग्रे श्रृङ्खला यस्य रूपवान् धन संयुतः ॥ ७९ ॥ करादाविति । मणिबन्धे रेखा दृश्यते सा लक्ष्मी साभौम्यं च दत्ते तस्य मणिबन्धस्य अग्रेशृङ्खला यस्य पुसः स्यात् संरूपवान् धनसंचयः ॥७९॥ यवैरङ्गुष्ठ मध्यस्थै विद्या ख्यातिविभूतयः ।
शुक्लपक्षे तदा जन्म वामाङ्गुष्टे तु रात्रिकम् ॥ ८० ॥
मवैरिति । अङ्गुष्टमध्यपर्वणि जातैर्यवैर्विद्या- ख्याति कीर्तिविभूतिः समृद्धिस्ततो द्वंद्वस्ताः स्युर्जन्म शुक्लपक्षे भवति वामाङ्गुष्ठे यवैस्तु रात्रौभवं रात्रिक जन्म । अत्र वामाङ्गुष्टे तु रात्रिकमिति कथनात् यवैरङ्कष्ट मध्यस्थैरित्यत्र दक्षिणाङ्गुष्ठ एवेति नाकर्षः स्त्रीपुंसो : सामान्यपरत्वात् सूत्रस्य ॥ ६० ॥ तत एव विशेषमाह---
यवेत्र दक्षिणाष्ठे दिवाजातं विनिर्दिशेत् । उभयाङ्गष्ठगे तस्मिन् कृष्णपक्षे दिवा भवम् ॥ ८१ ॥ यवेत्रेति । अत्र सामुद्रिकशास्त्रे दक्षिणाङ्गुष्ठे यवे दिवाजातं पुरुषं वा स्त्रियं वदेत् । उभयत्राङ्गुष्ठेवामे, अवामे च यवस्तदा नरं कृष्णपाक्षिकम् । दिनं जातं कथयेत्, अन्योन्यं रक्षणव्याघातात् परिशेषादौत्सर्गिकं पुरुषत्वात् कृष्णपक्षो दिनं च फलमित्याशयः क्वचिदुभत्र यवोदये यत्पक्षे हस्ते क्षणं तत्प्राधान्यमित्यग्रे वक्ष्यते । उभयत्र यवाभावप्येवं पुरुषस्य वेद्यं स्त्रीणां तुभयत्र यवाभावे शुक्लपक्षे रात्रीच जन्मवाच्यम् ॥ ८१ ॥
,
प्रान्तेजवित रेखाया स्तिर्यग्ररेखा यदा भवेत् ।
तदाश्वात्पतिता ज्ञेयाः श्यामा चेदीश्वराद्भयम् ॥ ८२ ॥
अश्वात्प
प्रान्त इति । आयुर्लेखायाः प्रान्ते तिरश्चीना रेखागया तदा तनं, सा रेखा चेत् श्यामाकृष्णा तदा खराद्गर्दभतो भयं स्यात् ॥ ८२ ॥ आयुरेखामध्यभागे उभे रेखाव्यवस्थिते ।
एकदीर्घा लघुचैका तदोर्ध्वं नियतेद्गृहात् ॥ ८३ ॥
"Aho Shrutgyanam"