________________
इति तिथिचक्रम्.
"वारचक्रं स्वरोदयशास्त्रात्" । रविर्गुरुः शनिभौमश्चत्वारो दक्षिणोदयाः । सोमः शुक्रबुधौ वामे कार्यसिद्धिविधायकाः ॥ १ ॥ ___ नरम्य दक्षिणाङ्गेऽङ्गुष्टतः प्रारभ्य चतुर्धा भागे जानुपर्यन्तं स्पर्श रविः, कटिपर्यन्तं गुरुः, हृदयर्पयन्तं शनिः, शिरपर्यन्तं मङ्गलः, एवं वामे वेधाभागः शीर्वादुदरं यावत् चन्द्रः जङ्घार्द्धयावत् शुक्रः, पादपर्यन्तं बुधः ।
इति स्पर्शद्वारेण शुभाशुभज्ञानमिति वारचक्रम् ।। दक्षिणः कृष्णः पक्षो वामः शुक्ल: । इति पक्षचक्रम् । दक्षिणे भागे नरस्य दक्षिणायन वामे उत्तरायणम्, इति अयनचक्रम् ।।
तत्र नरदेहस्य षोढाभागेऽङ्गुष्टतः कर्कादिषट्कं, दक्षिणे तेन पौषो मूर्द्धनि । दक्षिणभागे वामे माघादिषट्कं, शीर्षादारभ्याङ्गुष्टे स्वाषाढः । इति मासचक्रम् ॥
नरदेहे त्रयोदशभागे अश्विन्यादीनित्रयोदशनक्षत्राणि अङ्गुष्ठा दारभ्य शीर्पे यावत्, शिखायां चित्रा, ततः पुनर्वामे त्रयोदशाङ्गुष्टे रेवत्यन्तानि ।। इति नक्षत्रचक्रम् ।।
नरस्य नामराश्यादिषट्कं दक्षिणभागे ऊर्ध्वं चटत् वामे षटकमुत्तरत् स्त्रिया वामे चटत् दक्षिणे उत्तरत् । इति राशिचक्रम ॥
मूर्द्धनि नरस्य अमावसीपादयोः पूर्णिमा स्पष्टा, तिथि स्थाने द्वे द्वे वर्षे इति त्रिंशद्वर्षाणि प्रभवादीनि दाक्षिणे वर्द्धमानान्यारोहात् । ततस्त्रिंशद्वर्षाणि वामेऽवरोहात् । षष्टिवर्षात्परत आयुरादिज्ञानाय स्वजन्मतो दक्षिणे त्रिंशद्वर्षाणि तथैव वामेऽपि त्रिंशद्वर्षाणि पुनः कृष्णपक्षे अङ्गविद्यायां तत्तदवयवस्पर्श तावति वर्षाणि शुक्लपक्षेऽङ्गविद्यायां द्वितीयवारं त्रिंशद्वर्षाणि विचिन्त्यानि दक्षिणभागे तेन शुक्ले पृष्टं, मम कियदायुः तदा कस्यापि पुंसा
"Aho Shrutgyanam"