________________
(७)
श्वेष्टा दर्शने दक्षिणपार्श्वस्य तीथ्यापेक्षया तुयेवर्षापेक्षया सप्तमेऽशे स्पृष्टे सप्तषष्टिव युरिति वाच्यं । कृष्णपक्षे सप्तमांशदक्षिणे स्पृष्टे सप्तवर्षायु मे सप्तत्रिंशत् तेन शुक्ने तथा स्पर्शात् सप्तषष्टिरिति कृष्णपक्षे वामसप्तमांश म्पर्श सत नवतिरिति । यतो-हि शुक्लपक्षे वामसप्तमांशस्पर्शे सप्त त्रिंशत दक्षिणे सतषष्टि इति वर्षचक्रम् । तथा बृहस्पतेरपेक्षया द्वादशवर्षभ्रान्तौ बृहज्जातकवृत्ती. ---अङ्गस्पद्विर्षज्ञानं पादासगुल्फो प्रथम प्रदिष्टं जो द्वितीयं तु स जानुचक्रे मेढ़ोत्थमुष्कांश्चततस्तृतीयं नाभिः कटिति चतुर्थमाहुः ॥ १॥ " उदरं कथयन्ति पञ्चमै हृदयं षष्टमित्यादि तथा तिथिवारश्च नक्षत्रं पृच्छकाक्षरमिश्रितं तन्नेत्रण हरेद्भागं शेषं पृच्छा समुच्यते ॥ २ ॥ एकेन धातुद्वीभ्यां च जीवः शून्येन मूलकम् एवं स्यान्निश्चयः प्रश्नात्तथा दर्शनतोऽपि सः ॥ २॥ दक्षिणे धातुचिन्ता स्याद्रामाङ्गे जीवचिन्तनं समं विलोकते यस्तु तच्चिन्ता मूलमुच्यते ॥ ३ ॥ इयं दर्शनादगविद्या दूरमभ्यागतं दृष्ट्वा नातुरं तमुपाचरेत् । स्पृशन्तं नाभिना शास्य केशरोमनरवद्विजान् गुद्यपृष्टस्तनग्रीवा जठरानामिकाङ्गुली इति वाग्भटीये शारीरे षष्टाध्याये स्पर्शादेव सूक्ष्मधिया पर्यालोचने नष्टजन्मादि सर्व पृच्छा विमों भवतीत्यतो मुख्या प्रस्तुतग्रन्थस्य तत एव निर्गमात् ॥ ४ ॥ अष्टापि निमित्तानि नामतः प्राह
अङ्गं स्वमः स्वरश्चैव भौमव्यजनलक्षणे ।
उत्पात मन्तरिक्षं च निमित्तं स्मृतमष्टधा ॥ ५॥ अङ्गऽमिति । जीवस्योत्पत्ताबाहारेण प्रथममङ्गलाभः ततः स्वप्नोऽविद्यारूपस्ततः स्वरादय इति । क्रमहेतुः तत्रागविद्या प्रागुक्ता-पुंसा दक्षिगाङ्गे, वामाङ्गे स्त्रीणां; स्फुरणं शुभं, तथा नृणां दिगवलोकचेष्टा भाषितपल्लीप्रपाताावयवस्पर्शतोऽपि शुभाशुभमित्यादेस्तत्रान्तर्भावात् । स्वप्नस्तुसुप्तजाग्रदवस्थितसंस्कारपरिणतात्ममनसो सम्बन्धजन्यो विकल्पः, बालेन्द्रियाणां संकोचे मनसः किञ्चिदुद्वैधे भूतभवद्भविष्यद्वस्तुविज्ञानहेतुः ।
"Aho Shrutgyanam"