________________
(१७५)
व्यतिरेकमाह
छिन्नाः सपल्लवा रूक्षाविषम स्थानकच्युताः ।
विवर्णास्फुटिता रूमानीलास्तन्व्यश्चनोत्तमाः ॥ ५५ ।। छिन्ना इति । विषमावक्रस्थानकच्यता स्वस्थानं विमुच्यान्यत्रजाता, अन्यत्रप्रवृत्तावा विवर्णाःश्यामाः स्फुटिताअन्तः सछिद्रा रुक्षा: कान्तिहीना तन्व्यः अतिसूक्ष्मा न श्रेष्टाः शेष स्पष्टम् । अत्र विवेकविलासे स्थूलपदस्थान रूक्षाः रूक्षवपदस्थाने कृष्णा इति पाठः तदा विवर्ण घूसरा इत्यर्थः । ५५॥ - प्रत्येकगुणैः फलभेदमाह
क्लेशसंपल्लवा रेखा छिन्नाजीवित संशयम् ।
कदन्नं विषमाद्रव्य विनाशं विषमापयेत् ॥ ५६॥ क्लेशमिति । सपल्लवा वामतो दक्षिण तश्च निर्गतशाखा छिन्नामध्ये मूलतोप्यभावात् परुषात्वचि कठोरा ॥ ५६ ॥ रेखाणां सीमानमाह--
रेखाभिर्बहुभिः क्लेशः स्वल्पाभिर्द्धनहीनता ।
रेखा चतुष्पंञ्चषाभ्यो बहुरेखा दरिद्रता ॥५७ ॥ रेखाभिरिति । चतस्रः पञ्चः षड्वोरखायुक्ताः स्वस्वस्थान नियतावा ताभ्यो बहरेखाः: दरिद्रभाव एव, अत्रापि दरिद्रभाव एव एव अत्रापि शास्त्रोक्त रेखाभ्याधिक्ये दोष : न चेत् उद्वरेखाश्चतसृषु इत्यादिवक्ष्यमाणं विरुद्धयते ॥५॥ अमुभवाथ सम्मत्याद्रढयति
वरपउमयत सरिसा अछिन्ना मंसलाय संयुता। ____ससणिद्धरतरेहा धणकणयपडिछिया हत्थे ॥ ५८ ॥ वरेति । पद्मपत्रं पद्मपत्ररेखातस्सदृशीमूलस्थूलाः ततः सुक्ष्मासुक्ष्मतरा क्रमतस्तनुः मांसली हस्तमांसलतया । सम्पूर्णी स्वस्थानावधिं प्राप्ता-स्निग्धा रक्ताच रेखा धनकनकपडिछियापडिछियोदशीशद्वः प्रति पूर्णवाचकः धनककैः प्रतिपूर्णाहस्तेईदृग् रेखाकिताः ॥ ५८ ॥
"Aho Shrutgyanam"