________________
( १६४ )
नामिकान्तरे प्रथमवयः सुखं पित्रादिजन्यं मध्यमानामिकयोरन्तरत्वे तरुणवयः सुखं भर्तृजन्यम् । तर्जनीमध्यमयोरनन्तरत्वे वृद्धवयसि पुत्रादि जन् सुखं वाच्यम् । पुंसो वामहस्ते तर्जनी मध्यमारन्धाभावे प्रथम स्त्रीसकाशात् सुखम् । मध्यमानामिकानिरन्तरत्वे द्वितीयस्त्रीजन्यं सुखं, अनामिका कनिष्ठानन्तरत्वे तृतीयस्याश्चतुर्थ्या वा यथायोगं सुखं वाच्यम् । स्त्रिया दक्षिणहस्ते तर्जनीमध्ययोरनन्तरत्वे पुत्रप्रभृतेः सुखमित्यादिबोध्यं हस्तबिम्बादेव ॥२५॥
सम्मत्यन्तरमाह
बालत्तणम्मि जातसुत जणिया मंत्रिमंतरघणम्मि |
भम्भिमनामिय अंतर घणम्मितरुणत्तणे सुक्खम् ।। २६ ।। बालत्तणमिति । बालले जानीहि । तर्जनीमध्यमान्तरे घने मध्यमाsनामिकान्तरे घने तरुणत्वे सुखम् ॥ २६ ॥
पावरपच्छासुहं कणिद्वियाणामियंतर धणम्मि | अछिदेसु घणेसुय पध्येसु सयासुद्दी होई ॥ २७ ॥ पावईति । प्राप्नोति पश्चात् सुखं कनिष्ठिकानामिकान्तरे घने, अछिद्रेषु घनेषु पर्वसु सदासुखी भवति । पर्वसु इत्यत्राश्रयलक्षणा ॥ २७ ॥ शब्दभ्रमनिवारणाय भाष्यं-
अथ, अङ्गुलीषुदीर्घत्वं श्रेष्ठमुक्तं तत् कथमित्याह
अनामिकान्त्यरेखायाः कनिष्ठाः स्याद्यदाधिकाः । धनवृद्धिस्तदापुंसां मातृपक्षो बहुस्तथा ॥ २८ ॥
अनामिकेति । अन्त्यारेखात्र तृतीये नखवति पर्वणि प्राद्या साध्यायता तस्या यदा कनिष्ठा - अधिका तदा पितुरपेक्षया घनं बहुवामहस्ते तद्वृद्धौ मातृपक्षो मातुलादिर्बहस्यात् । अत्र प्राचां भणितौ फलद्वयं सामान्यत उक्तं अत्र विशेषेण तत् स्त्री मातृमातृपक्षादि, इत्युक्तेर्बोध्यम् ॥ २८ ॥ मध्यमा प्रान्तरेखाया अधिकार्यादि तर्जनी । प्रचुरस्तत् पितुः पक्षः श्रियश्च विपदोऽन्यथा ॥ २९ ॥
"Aho Shrutgyanam"