________________
( १६५ )
मध्यमेति । अत्रापि दक्षिण करे पितृपक्षः वामेलक्ष्मीरिति । अन्यथा विपर्यये विपदः दुःखानि च ॥ २९ ॥
अथ किञ्चिवृद्धावपि मात्राधिकत्वे दोषमाह
अङ्गुष्टस्याङ्गुलीनां च यद्यूनाधिका भवेत् ।
धन्यैस्तदाहीनो नरः स्यादायुषापि च ॥ ३० ॥ अङ्गुष्ठस्येति । यथा योग्यात्वादत्यन्त न्यून्यत्वे, अधिकत्वे सर्वत्रो हानिरेव ॥ ३० ॥
अत्रापि विशेषमाह
मध्यमायां तु दाधायां भार्याहानिं विनिर्दिशेत् ।
अनामिकायां दीर्घायां विद्या भोगिभवेन्नरः ॥ ३१ ॥ मध्यमायामिति । दीर्घायां यथा योग्यत्वात् परिगणनाधिकायां, नचेदन्याभ्यो दीर्घत्वं तु मध्यमाया' निश्चितमेव । भार्या हानिद्विस्त्रिर्वा विवाहेऽपि न तस्याश्चिरजीवित्वम् । अनामिकायामत्रापि परिमाणतोऽधिकत्वे व्याख्येयम् ॥ ३१ ॥
इति
इदं सूत्रं पदाङ्गुलिस्वरूप उक्षकमन्ये ब्रुवते तत्त्वं सर्वज्ञगम्यं पुनविशेषमाह
अपत्र यस्य पर्वाणि दृश्यन्तेऽङ्गुलिपवसुं ।
सरक्ताङ्गुलयो येच ते सर्वे चिरजीविनः ॥ ३२ ॥
अपवर्ग इति । पर्वशः अकारान्तोऽपि योगशास्त्र वृत्तौ, अचतुरेप्यादिना वा निपातनात् सिद्धम् । अपर्वेपर्वणो विंशेोपकस्य स्थानाभावे पर्वाणि विंशेोपकाभवन्ति । संरक्ता अत्यन्तरक्तिनान्त्रिता अङ्गुलयो येषां ते पुरुषादीर्घायुष्का भवन्ति ॥ ३२ ॥
यस्यहस्तपदेदीर्घाङ्गुलीमिलितोऽथवा ।
सपुमान् विरही नित्यं ह्रस्वाङ्गुली दरिद्रता ॥ ३३ ॥ यस्येति । यथा हस्तपाद इति श्रीसमुद्रवचनात् हस्ते वा पांदे पाण्योचरणयोरपीति । विवेकविलासेऽपि साम्य भणनं तेन करे चरणे दीर्घा
"Aho Shrutgyanam"