________________
( १६३ )
भेद दृश्यते । तत्र प्रथमे सम्मंसंगुठिपत्रो पुरिसो घणवंसया सुही होइ ! इस असवो तातस्ससिरि न संभवइ ॥ १ ॥ इत्युक्तं तदभिप्रायं न विमस्तेन बहुश्रुताः प्रष्टव्याः यद्वा स्यंशनरलक्षणमेतत् ॥ २२ ॥ विशेषज्ञानार्थं ग्रन्थान्तरपाठमाह-
श्लिष्टान्याङ्गुलिमध्यानि द्रव्यसंचय हेतवे ।
तानि चेच्छिन्द्र युक्तानि त्याग-शीलयुतो नरः ॥ २३ ॥ लिष्टानीति । श्लिष्टानि - अन्योन्य मिठितानि निरन्तराणीत्यर्थः । त्यागेति दानवान् सुशीलः पुरुषः अत्र सामान्योक्तावपि दानस्य दक्षिणकरें साध्यत्वात्, दक्षिण करेऽङ्गुलिछिद्रे दातृत्वं वाच्यं स्त्रिया- अपि दक्षिण एव ॥ २३ ॥
अथान्तरालेपि विशेषमाह
तर्जनी मध्यमारन्धे मध्यमानामिकान्तरे
अनामिका कनिष्टान्तः छिद्रे । सति यथा क्रमे ॥ २४ ॥ वर्जनीति | २४
जन्मतः प्रथमेशे वाद्वितीये च तृतीय के
भोजनावसरेदुः केप्याहुः श्रीमतामपि ॥ २५ ॥
जन्मत इति । लोकद्वयं मिठितार्थं, स्पष्टं, प्रथनेंशे प्रथमवयसि चयोsa आयुः परीक्षानुसारात् ज्ञेयम् । अष्टादशांशः क्रियन्तेंऽशु मालीत्यादि दशाक्रमवत्, तत्त्रान्तराले सति श्रीमतानपि मातापितृभाग्यात् धनेसत्यपि पुत्रस्यभोजनवासरे जेमनकालेऽपि किञ्चिदुःखं क्लेशादि जायते । अयं चात्र भावः तर्जनीमध्यम योरन्तराले प्रथमवयसि दुःखवाच्यम् । यदि दैवात् पित्रोर्धनित्वं तत्र दुःखासम्भवस्तदा भोजनसमयेऽपि किञ्चिदुःखं जायते, यद्वा भोगावसरे स्त्रीविवाहादिसमये इति व्याख्येयं तस्य बाल्येऽपि सम्भवात् । अत्र वयोsनुक्रमो बालं -- कुमारं तरुणमित्या प्रागुक्तवशात् द्विपर्ययेन, तथापि दिनोदयः स्मृतोऽङ्गुष्ठे इत्याद्युक्त्या सम्यगेवायं बोध्यः । स्त्रियास्तु कनिष्ठा१ अत एव अर्धिनित्रहत्यागैः कृतार्थीकृत इति प्रागुक्तम् ।
"Aho Shrutgyanam"