________________
( १६२ )
अकर्मेति ॥ १८ ॥
तलं वक्रं तथा ह्रस्वमतिदीर्घश्च नोशुभम् ।
रेखाभ्रमर चक्राङ्कासूक्ष्मा अस्फुटिताः शुभाः ॥ १९ ॥ तलमिती लोकलयं हस्तबिम्बगतमेव तेन न पुनरुक्तिः ॥ १९ ॥ हस्तस्वरूपं निश्चित्याङ्गुलिस्वरूपमाह -
दीर्घनिर्मासपर्वाणः सूक्ष्मादीर्घाः सुकोमलाः ।
सघनासरलावृत्ताः स्त्रीत्रोरलयः श्रिये ॥ २० ॥ दीर्घेति । पर्वाणि विंशेोपकास्ते दीर्घमांसवर्जिताः । या सुताः अङ्गुल्यः सूक्ष्मा तन्व्याः दीर्घा लम्बाः सुकुमाराः सुघनाः परस्परं निरन्तरालावृत्ता वर्तुला मांसयुक्तत्वात् ईदृश्यः पुरुषस्य स्त्रियाश्चाङ्गुलयः लक्ष्मीदायिका स्युः पूर्वं दीर्घपदं पर्व विशेषणं परन्तु अङ्गुल्यास्तेन न पुनरुक्तिः ॥ २० ॥ तद्व्यतिरेकमाह-
यच्छन्ति विरला शुष्काः स्थूला वक्रादरिद्रताम् । शस्त्रघातावहिर्नम्राश्चटत्वं चिपिटाश्चताः ॥ २१ ॥
यच्छन्तीति । अन्वयेनैव सिद्धौ व्यतिरेककथनं नाना मति शिष्यबोधार्थं विरला-अन्तरसहिताः शुण्कारुक्षाविछाया स्थूलाः पर्वस्यपि मांसयुक्ता वक्रा गुल्यो दरिद्रत्वं ददति करपृष्ठे नम्रत्वे शस्त्रघातं समर्पयन्ति चिपिटा, पर्वाणि मुक्त्वा मांसाभावात् विषमादासत्वं ददति, स्त्रियास्तु स्थूलाङ्गुलित्वं तथा पादयो दीर्घा प्रदेशिनी निषिद्धा विवेकाविलासे ॥ २१ ॥
साम्प्रती न जनानामनाश्वस्तत्वात् स्वोक्तौ सम्मतिमाहविरंगुलि वणरहितु घणसंच तु धणंगुलिहोइ । निम्मंसंगुलिपव्वो सधणा विसमंगुलि अथणा ॥ २२ ॥
विरलाङ्गुलीति । विरठाङ्गुलिर्धनरहितः । धनसञ्चयवान् घनाङ्गुलिर्भचति । निर्मांसाङ्गुलिपर्वसाधनः वित्रमाङ्गुलिः, अधनः । अत्र • पणमिय जिममय गुणं गयरायसिरोमणि महावीरं ' इत्यादिकं एकं कररेखा प्रकरणं द्वितीयं अरिहंते वंदित्ता सिद्धे रिसहो य सव्व साह्य इत्यादिकं किञ्चित्पाठ
"Aho Shrutgyanam"