________________
(१६१)
- फुडिया इति । स्फुटितं विपादिकाभिः शीतकालं विनापि पीडितं प्रकटकूपरास्थिप्रान्तं, अङ्गुलीषु वह्नन्तरं विषमाणि एकविंशति, एकोनविंशत्यादिविषमाङ्क संख्यानि पर्वाणि विंशोपकास्तत्संप्राप्तं निर्मासं शुष्कं कठिनत्वचिकर्कशं तलं प्राकृतत्त्वात् स्त्रीलिङ्ग यदाह-पाणिनिः लिङ्गमतन्त्रमिति, ईदृशं पाणितलं चेत्तदा परकीय सेवा करणेन दासवृत्या जीवन्तो नरा भवन्ति ॥ १४ ॥ तलस्वरूपं निर्दिश्य पृष्टस्वरूपमाह-----
करपृष्ठं सुविस्तिर्ण स्निग्धं पीतं समुन्नतम् । __ श्लाघ्यं गूढशिरं नृणां फणभृत्कलसन्निभम् ॥ १५ ॥ करेति । पीनं मांसलं स्निग्धं त्वचि दीप्तिमत्, अप्रकटस्नायुजालं शुभं तद्वयतिरिक्तमन्यथा ॥ १५ ॥
तद्वयतिरेकमेवाह--
विवर्ण परुषं रुक्षं रोमशंमांसवर्जितम् । _माणिबन्धसमं निम्नं न श्रेष्ठं करपृष्ठकम् ॥ १६ ॥ विवर्णमिति । श्यामं कान्तिरहितं परुषं त्वचि कर्कशं रूक्षं विछायं रोमशं लोमसहितां निर्मीसं माणबन्धस्थानवत् निचैवलमानं गाङ्कितं ईदृशं शुभं करपृष्ठं, अन्वयेनैवार्थलाभे व्यतिरेकोक्तिर्विशेषबाधाय ॥ १६ ॥ ___अत्र सम्मतिदर्शनाय चतुर्घा-हस्तबिम्बस्थापनीयं
एकं पुरुषदक्षिणहस्तस्य द्वितीयं स्त्रिया वामहस्तस्य तृतीयं पुरुष वामहस्तस्य चतुर्थ स्त्री दक्षिण हस्तस्येति चतुर्विध हस्ताकार स्थापनया रेखाफलं सुबोधं तेन तद्ग्रन्थादेव पृष्टलक्षणं दृढयति ।
हस्तपृष्ठं सर्पफणाकारं रोमविवर्जितम् ।
श्रेष्टं मांसलमुच्यगं मणिबन्धाङ्कितं शुभम् ॥ १७ ॥ हस्तपृष्ठमिति । स्पष्टम् ॥ १७ ॥
अकर्मकठिनं पाणितलं मध्ये तदुन्नतम् । दानिनां कृषणानां तु भवेदत्यन्तनिम्नगम् ॥ १८ ॥
"Aho Shrutgyanam'