________________
श्रीवर्द्धमान इति । हस्त-उत्तरो यासां ता हस्तोत्तरा, उत्तराफाल्गुन्यः पञ्चसु अवतारो जन्मादिस्थानेषु यस्य, । अत्र हस्तनक्षत्रस्य सवितृदेवतत्त्वेन प्राधान्यार्थमेवं सत्रन्यासो न; चेदुत्तराफाल्गुनीरवसाक्षादवक्ष्यत् । तेनास्मिन् अन्थेऽपि हस्तनक्षत्रस्यैव हस्तनिरीक्षणे मुख्यता इत्यग्रे वक्ष्यते । तदप्राप्तौ हस्तोत्तरत्वादुत्तरा फाल्गुन्येऽपि तासामपि अर्यमदेवत्वात्, मतान्तरें हस्तस्य नक्षत्रं इत्यर्थस्तदा हस्तोहकारादिनामा तन्नक्षत्र पुनर्वसू तयोरप्यादित्यत्वात् पुष्यस्य सर्वकार्येषु दीक्षा विवाहवर्जितेषु इष्टत्वात्, गुरुदैवतत्त्वात् हस्तोहस्तस्य नामनक्षत्रं पुनर्वसू तदुत्तरत्वाच्च; तथा चित्राया अपि त्वष्टदेवत्वात् हस्तादुत्तरत्वाच्च मुख्यत्वं ज्ञेयं, एवं पञ्चशाखत्वाकरवीक्षणे पञ्चनक्षत्राणि ग्राह्याणि । अग्रे वामहस्तावलोकनमपि वक्ष्यते, तेन चन्द्र दैवतत्त्वात् मृगशिरः अनुराधा भित्रदेवत्वात् २ रेवतीपुषदेवत्वात् सूर्यपत्नी भावाच्च इति नक्षत्र त्रयमपि स्त्रीहस्तवीक्षणे गृह्यत एवेति सूचितम् ।
अन्यतीर्थीयमते-पञ्चसंख्याका हस्ता देवत्वेन चत्वारोभूजाः पञ्चमोहस्तिमुखत्वात् शुष्डादण्ड इति पञ्चहस्तास्तैरुत्तरः प्रधानो गणेशो जयतु । किं० श्रिया वर्धमानः पुनः किं० सिद्धाः प्रतिष्टां प्राप्ता ये अर्थाः कार्याणि तैर्नृपाणामप्यान्दहेतुः समृद्धिकर्ता ॥ ३ ॥
अथाभिधेयस्याकारमाहअङ्गविद्यानिमित्तानामष्टानामपि गीयते ।
मुख्याशुभाशुभज्ञाने नारदर्षिनिवेदिता ।। ४ ॥ अङ्गेति । अष्टानां निमित्तानां भूतभवद्भविष्यद्वस्तु ज्ञानस्य कारणानां नतु पदार्थोत्पादहेतूनां मुख्यासर्वनिमित्तानां तदन्तर्भावात् तिर्यङ्मनुष्याणां संत्वादि-स्वभाववातादि-प्रकृतिरसादि-धातु शरीरवर्णादि निम्नोन्नताङ्गप्रत्यङ्गदर्शनस्पर्शनादिना सुखदुःखादिज्ञानमाङ्गमितिप्राचामुक्तेः । तत् एवोक्तं-श्रीसमवायाङ्ग सूत्रवृतौ, अङ्गविद्यासूत्रे लक्षश्लोकप्रमाणं द्वात्रिंशत् । कोटिप्रमाणवार्तिकमपरिमितं, शेषनिमित्तानां सूत्रं सहस्रं श्लोकावृत्तयो लक्ष
"Aho Shrutgyanam"