________________
( ३ )
लक्षणं व्याकरणसूत्रं-उदात्तानुदात्तादि स्वरपूर्वं शब्दानुशासनं तत् प्रधाना वैदिकी यद्वा लक्षणा संभवा लक्षणा शब्दस्य द्वितीयावृत्तिरनया साहित्यशास्त्रं सर्वमावेदितम् । लक्षणमसाधरणधर्मस्तत्प्रधाना तर्कविद्या लक्षणं हस्ते दीक्षारेखादि लक्षणं तत् प्रधाना अगमविद्या व्रतं विना आगमानधिकारात् ब्रतमापि करलक्षणादेवज्ञात्वादेयं यदुक्तं कररेखाप्रकरणे--
ईयकरलखणमेयं समासओदेसियं जणस्तहियं । युवायरिएहिं नरं परिखिऊणय वयं दिज्झा ॥१॥
यद्वा-- धम्मो मंगलमुकिलु" इति धर्म लक्षण, अंहिसा संजमो तवो इतिविभाग: तथायथा चतुर्भिः कनक परीक्ष्यते निर्घर्षणछेदनतापताडनैः। तथैव धर्मो विदुषा परीक्ष्यते श्रुतेन शीलेन तपो दया गुणः ॥१॥
ततः परीक्षाया लक्षणं विना अयोग्याल्लक्षणस्यैव प्राधान्यं ततो लाक्षणिकीति वचसा सकलविद्यात्मकस्य भारत्या अङस्य संग्रहः ॥ २ ॥
" आद्यन्त ग्रहणे मध्यग्रहणमिति” न्यायात् श्रीऋषभाशीर्वादमुक्त्वा श्रीवर्द्धमानप्रभोश्चरमतीर्थकरस्य शासननेतुराशीमङ्गलं पुष्टं मङ्गलं पुष्टविघ्नविनाशायेत्याशंसायामाइ--
श्रीवर्धमानो जयतु सर्वज्ञानि शिरोमणिः । पञ्चहस्तोत्तरोवीरः सिद्धार्थनृपनन्दनः ॥ ३ ॥ १ इतिकरलक्षणमिदं समासतः दर्शितं जनस्यहितम् पूर्वाचार्यैः नरं परीक्ष्य व्रतं दीयते ॥ १ ॥ २धम्मोमङ्गलमुक्किंठं अहिंसा संयमो तवो देवावितं नमसंति जस्स धम्मे सयामणो ॥१॥ धर्मों मङ्गलमुत्कृष्टमाहिसा संजमः तपः देवाअपि तं नमस्यान्त यस्य धर्मे सदामनः ॥ १॥
दशवकालिकसूत्र अ० १. गा० १
----
-
"Aho Shrutgyanam"