________________
(२) शर्केश्वरो दक्षिणावर्तशङ्खस्तद्वत् पार्श्व-समीपं यस्य जिनसन्निधानात्स कलकामनासिद्धेः यद्वा श्रिया चतुस्त्रिंशदतिशयरूपया ईशः समर्थस्तं पुनः किं० खं स्वर्गस्तदीश्वरा इन्द्राः पार्थे यस्य तम् । अत्र पार्श्ववृषभयोरेवं नमस्कार द्वयोहस्तयोग्रे वक्ष्यमाण तद्धयानात् इन्द्रसेवा कथनेन हस्तेऽधिष्ठात्री पञ्चाङ्गुलिर्देवी सा ऐन्द्री शक्तिरिति देवेन्द्राधिकारः सूचितः । " हस्तयोरिन्द्रोऽधिदैवतामति ” सौश्रुत शारीरे ॥
अथ निमित्तशास्त्राणां सर्वलोकसंमतत्त्वेन लिष्टनमस्कारः । श्रिया ईशं स्वामिन विष्णुं खेश्वरः सुरेन्द्रः पार्था यस्य इन्द्रानुजत्वात्. यद्वा श्रीश्च संखेश्वरः पाञ्चजन्यः पार्थे यस्य शंखचक्रादि धारित्वात् , अनेन हस्ते वक्ष्यमाण लक्षणज्ञापनं जिनवृषभं दैत्यजेषु मुख्यं अनेन शास्त्रविपक्षं नास्तिकादिध्वंसः ख्यापितः । हरभक्तमते-श्रियायुक्तः ईशो भवानीपतिस्तम् । किं-जिनोऽन्यसिंहादिस्वापदजेता वृषभोयस्य, अनेन इश्वरस्य प्रभुत्वशक्तिनिवेदिता यत्प्रसादानिर्बलोऽपि सबलस्तस्य प्रभावे किमुच्यत इति शेषं स्पष्टम् ॥ १॥
अथ लक्षणविद्या प्रकाशकत्वात् श्रीऋषभदेवस्य स्वतोऽप्याशीर्वादलक्षणं ब्रह्मणः श्लेषण मङ्गलमाह--
श्रीनाभेयः प्रभुर्जीयात् सर्वज्ञो जगदीश्वरः।
येन लाक्षणिकी विद्या निर्दिष्टा भुवनश्रियै ॥ २॥ श्रीनाभेय इति । लक्षणमिह स्त्रीपुरुषाङ्गाकाररूपं यद्वातदुपलक्षणात् सर्वाः द्वासप्ततिकलाः पुरुषस्य; चतुषष्टिकलाः स्त्रीणां; श्रीऋषभेण भगवता प्रकाशिता, इत्ययं स्मरणीयोऽधिकारात् । विधिपक्षे येन विद्या ब्राह्मी शक्तिरूपा निर्दिष्टा-प्रकाशिता प्रादुः कृताजनिता इति यावत् किं. लाक्षणिकी लक्षण प्रधाना तत्र धर्ममोक्षयोर्याविद्यातल्लक्षणं विद्यावाङ्गुष्टमूलजैरिति वक्ष्यते । पठनपाठनरूपाविद्यातल्लक्षणं दक्षिणइस्तकरभे काम विद्या संगीत चातुर्यादिविज्ञानं तल्लक्षणं वामहस्ते विद्यारेखा । इति यद्वा
"Aho Shrutgyanam"