________________
॥ अहंम् ।। श्रीमजैनाचार्यश्रीजयमूरिभ्योनमः श्रीमन्महामहोपाध्याय श्रीमेघविजयगणिविरचितं
हस्तसञ्जीवनम्
ॐ ऐं हीं श्रीं क्लीं अहँ नमोनमः ॐनमः सिद्धमहन्तन्ध्यायन्नितिकृताञ्जलिः ।
हस्तसञ्जीवनव्याख्याङ्कुर्वे स्मृत्वा गुरोर्गिरम् ॥ १ ॥ - तत्रादौ शिष्टाचाराय निमित्तशास्त्रे देवसान्निध्यादेव वाक् सिद्धये च मङ्गलमाह
श्रीसल्लेश्वरपार्श्वम्प्रणमन् ध्यायंस्तमेव जिनवृषभम् ।
हस्तप्रश्नस्य लक्षणपरीक्षणे दक्षतां वक्ष्ये ॥१॥ श्रीसलेश्वरपार्श्वमिति ।
अर्हन् सिद्धो हि भगवान् एकोध्येयः सतात्त्विकैः । नाना नामाकृतिस्थानध्यानज्ञानासनादिभिः ॥ १ ॥ यथा सद्गुरुवाक्येन स्याद्वादपरिशीलनात् । लभ्यः सभ्यजनैः शुद्धज्ञानभक्तिवतैर्विभुः ॥ २ ॥ तत्तद्देवादि सान्निध्यात् तत्तत् कामित पूरणात् ।
इष्टःशास्त्रकृतः पार्श्वः श्रीमान् सवेश्वराश्रयः ॥ ३ ॥ तेन तं, प्रणमन् , यथावसरं कदाचिदन्यकायें गमनभोजन शयनादौ तमेव ध्यायन्, अहर्निशं जिनवृषभं तिर्थकरेषु मुख्यं आदेयनामानं यहा जिनवृषभं श्रीआदिनाथं नाभिराजसुतं किं विशिष्टं श्रियायुक्तः
"Aho Shrutgyanam"