________________
(१५९) स्पर्शनं स्फुरणं पुंसां शुभायाङ्गे प्रदक्षिणे ॥७॥
उत्पात इति । उत्पातो न्यूनाधिकाङ्गुलित्वादिः पिटकस्फोटको गडुविशेषः लक्ष्मलाञ्छनं तिलकं रक्तं-श्यामविन्दुभेदः मशकः प्रसिद्धः व्रणश्चन्द्रिकारोगभेदः स्पर्शनं पल्लीकृकलासोर्णः नाभादीनां स्फुरणं नेत्रस्फुरणादिकं पुंसा पुरूषाणां प्रदक्षिणेऽङ्गे शुभाय भवति ॥ ७ ॥
शेषार्थमाभ
वामनुवां पुनर्वामे स्यंशकस्य नरस्यच _ घातो दक्षिणके कैश्चिन्नरस्यांगे शुभोमतः ॥८॥
वामेति । स्त्रीणां वामानेपर्वोक्तं सर्व शुभायस्त्रीस्वभावस्य मायावगुण्डानवक्रोक्ति गूढाशयचपलत्वमानाधिक्यरागप्रियत्वादिगुणैः सहितस्य पुरुषस्यापि वामेऽङेशुभाय भवति । कैश्चित्पण्डितैः शास्त्रादिप्रहारोऽपि नरस्य दक्षिणेऽङ्गे शुनः प्रोक्तः । आस्तामन्यलक्षणमित्याशयः । एतेन कोमलेतरतायां द्वयोर्हस्तयोः साम्येऽपि लक्षकत्वं पुंसो दक्षिणकरे एव काठिन्यस्य, स्त्रियाः कोमलत्वस्य वामहस्त एवेति निश्चयः । तस्यागर्भोद्भवे पित्रा वामस्वर प्रवृत्तौ सुरतेक्रियमाणे पुद्गलोपचयेन जायमानत्वाम् अतएव शुक्लपक्षे स्मरारोहः इन्दुस्वरूपेण वामनाड्याः शैत्येन पुद्गलभाराश्रयात् ॥ ८॥
सम्मत्या लब्धमर्थ ग्रन्थकृद्विवृत्यहास्यंशकत्वाद्वालकस्यापि शुभगस्य विलोक्यते ।
वामहस्ताकलंपञ्चदशवर्षाणि किञ्चन ॥ ९॥
स्यंश इति । अश्मश्रुकूर्चलोमातिशय बालस्य सुभगस्य बहुजनप्रि यस्य पञ्चदशवर्षपर्यन्तं रक्ताधिक्यात्किञ्चनफलं वामहस्तरेखाभिर्विलोक्यते । किन्चनेति कथनान्नसर्वमायुः प्रमुखमिति भावः ॥ ९ ॥
हस्तस्य शुभलक्षणसंग्रहमाहश्लाध्य उष्णारुणोछिद्रः स्वेदः स्निग्धश्चमांसलः। श्लक्षणस्ताम्रो नखो दीगुलिको विपुलः करः ॥ १० ॥ लाध्य इति । ईदृशः करः श्लाध्यः प्रशस्यः । उष्णवीर्याथिक्यात्--
"Aho Shrutgyanam"